SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय.वृत्तौ. ॥४४॥ ते समासओ' इत्यादि, ते जलचरपञ्चेन्द्रियतैर्यग्योनिकाः समासतः-संक्षेपेण द्विविधाः प्रज्ञप्ताः, तद्यथा-संमू-18| १ प्रज्ञापछिमाश्च गर्भव्युत्क्रान्तिकाश्च, “मूर्छा मोहसमुच्छ्राययोः" अस्मात् संपूर्वात् संमूर्छनं संमूर्छः, “अकर्तरि" इति नापदे जभावे घञ्प्रत्ययः, गर्भोपपातव्यतिरेकेण एवमेव प्राणिनामुत्पाद इति भावः, तेन निवृत्ताः संमूच्छिमाः “भावादिम"| लचरपञ्चे. इति इमप्रत्ययः । गर्भे व्युत्क्रान्तिः-उत्पत्तिर्येषां ते, व्युत्क्रान्तिशब्दोऽत्रोत्पत्तिवाची, तथा पूर्वाचार्यप्रसिद्धः, यदिवा (सू. ३३) 'गर्भात्' गर्भावासाद् व्युत्क्रान्तिः-निष्क्रमणं येषां ते गर्भव्युत्क्रान्तिकाः "शेषाद्वा" इति कच्समासान्तः। चशब्दो प्रत्येकं स्वगतानेकभेदसूचकौ । तत्र ये ते संमूछिमास्ते सर्वे नपुंसकाः, संमूछिमभावस्य नपुंसकत्वाविनाभावित्वात् । ये तु गर्भव्युत्क्रान्तिकास्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाः । एतेषां चोभयेषामपि शरीरावगाहनादिषुद्वारेषु यचिन्तनं यच्च गर्भव्युत्क्रान्तिकानां स्त्रीपुंसनपुंसकानां परस्परमल्पबहुत्वचिन्तनं तज्जीवाभिगमटीकायां कृतमिति ततोऽवधार्यम् । 'एएसिणं' इत्यादि, एतेषामेवमादिकानामुपदर्शितप्रकारादीनां जलचरपञ्चेन्द्रियतैर्यग्योनिकानां पर्याप्तापर्याप्तानां सर्वसंख्ययाऽर्धत्रयोदशजातिकुलकोटीनां योनिप्रमुखानि-योनिप्रवहाणि शतसहस्राणि भवन्तीत्याख्यातं भगवद्भिस्तीर्थकरैः । उपसंहारमाह-'सेत्तं' इत्यादि, तदेवमुक्ता जलचरपञ्चेन्द्रियतैर्यग्रयोनिकाः॥ ॥४४॥ सम्प्रति स्थलचरपञ्चेन्द्रियतैर्यगयोनिकानभिधित्सुराहसे किं तं थलयरपंचिंदियतिरिक्खजोणिया ?, थलयरपंचिंदियतिरिक्खजोणिया दुविहा प०, तं०-चउप्पयथलयरपंचिं Jain Education international For Personal & Private Use Only Mainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy