________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥ ४१ ॥
तथाप्रकारा - एवंप्रकारा मृतककडेवरसम्भूतकृम्यादयस्ते सर्वे द्वीन्द्रिया ज्ञातव्याः, ते संमुर्छिमत्वादेव च नपुंसकाः, संमुर्छिमानामवश्यं नपुंसकत्वात् 'नारकसंमुर्छिमा नपुंसका' (० नि नपुंसकानि तत्त्वा - अ - २ - ५० ) इतिवचनात्, 'ते समासओ' इत्यादि, ते द्वीन्द्रियाः समासतः -संक्षेपेण द्विविधाः प्रज्ञप्ताः, तद्यथा - पर्याप्तकाश्च अपर्याप्तकाश्च, चशब्दौ योनिकुलभेदेन खगतानेकभेदसूचकौ, एतेषां द्वीन्द्रियाणामेवमादीनां पुलाकृम्यादीनां द्वीन्द्रियाणां पर्याप्तापर्याप्तादीनां सर्वसङ्ख्यया सर्वजातिकुलकोटीनां योनिप्रमुखाणि - योनिप्रवहाणि योनिशतसहस्राणि भवन्ति, सप्त जातिकुलकोटिलक्षा भवन्तीति भावः, इत्याख्यातं तीर्थकृद्भिः, मकारोऽलाक्षणिकः, इयमत्र भावना - इह जातिकुल योनीनां परिज्ञानार्थमिदं परिस्थूरमुदाहरणं पूर्वाचार्यैरुपदर्शितम्, तद्यथा - जातिरिति किल तिर्यग्गतिः तस्याः कुलानि - कृमि - कीटवृश्चिकादीनि, इमानि च कुलानि योनिप्रमुखाणि, तथाहि एकस्यामेव योनौ अनेकानि कुलानि भवन्ति, यथा छगणयोनौ कृमिकुलं कीटकुलं वृश्चिककुलमित्यादि, अथवा जातिकुलमित्येकं पदम् जातिकुलयोन्योश्च परस्परं विशेषः, एकस्यामपि योनौ अनेकजातिकुलसम्भवात् यथा एकस्यामेव योनौ कृमिजातिकुलं कीटकजातिकुलं वृश्चिकजातिकुलमित्यादि, एवं च एकस्यामेव योनाववान्तरजातिभेदभावादनेकानि योनिप्रवहाणि जातिकुलानि सम्भवन्तीत्युपपद्यन्ते, द्वीन्द्रियाणां सप्त जातिकुलकोटीनां शतसहस्राणाम्, उपसंहारमाह - 'सेत्त' मित्यादि, सैषा द्वीन्द्रियसंसारसमापन्नजीवप्रज्ञापना ॥ सम्प्रति त्रीन्द्रियसंसारसमापन्नजीवप्रज्ञापनार्थमाह
Jain Education International
For Personal & Private Use Only
१ प्रज्ञापनापदे द्वी
न्द्रियप्र
ज्ञाप.
(सू. २७)
॥ ४१ ॥
www.jainelibrary.org