________________
प्रज्ञापना- याः मलय० वृत्तौ. ॥३८॥
णमते जीवः सोऽपि च पत्रे प्रथमतयेति स एव प्रथमपत्रतयाऽपि परिणमते इत्येकजीवकर्तृके मूलप्रथमपत्रे इति, प्रज्ञापआह-यद्येवं 'सब्वोऽवि किसलओ खलु उग्गममाणो अणंतओ भणिओ' इत्यादि वक्ष्यमाणं कथं न विरुध्यते ?, नापदे बीउच्यते, इह बीजजीवोऽन्यो वा बीजमूलत्वेनोत्पद्य तदुत्सूनावस्थां करोति, ततस्तदनन्तरभाविनी किसलयावस्था जाद्यपत्रनियमतोऽनन्ता जीवाः कुर्वन्ति, पुनश्च तेषु स्थितिक्षयात्परिणतेषु असावेव मूलजीवोऽनन्तजीवतनुं खशरीरतया | किशलयपरिणमय्य तावद्वर्द्धते यावत्प्रथमपत्रमिति न विरोधः, अन्ये तु व्याचक्षते-प्रथमपत्रमिह याऽसौ बीजस्य समुच्छ्र
स्वरूपं नावस्था, तेन एकजीवकर्तृके मूलप्रथमपत्रे इति, किमुक्तं भवति ?-मूलसमुच्छूनावस्थे एकजीवकर्तृके, एतच्च निय-19
18 (सू. २५) मप्रदर्शनार्थमुक्तं-मूलसमुच्छूनावस्थे एकजीवपरिणामिते एव, शेषं तु किसलयादि नावश्यं मूलजीवपरिणामाविर्भावितमिति, ततः 'सव्वोऽवि किसलओ खलु उग्गममाणो अणंतओ भणिओ' इत्याद्यपि वक्ष्यमाणमविरुद्धं, मूलसमुच्छ्रनावस्थानिवर्तनारम्भकाले किसलयत्वाभावादिति, आह-प्रत्येकशरीरवनस्पतिकायिकानां सर्वकालं शरीरावस्थामधिकृत्य किं प्रत्येकशरीरत्वमुत कस्मिंश्चिदवस्थाविशेषे अनन्तजीवत्वमपि सम्भवति?, तथा साधारणवनस्पतिकायिकानामपि किं सर्वकालमनन्तजीवत्वमुत कदाचित् प्रत्येकशरीरत्वमपि भवति ?, तत आह-सव्वोऽवी'त्यादि, इह सर्वशब्दोऽपरिशेषकाची, सर्वोऽपि वनस्पतिकायः प्रत्येकशरीरः साधारणो वा किसलयावस्थामुपगतः सन् अनन्तकायस्तीर्थकरगणधरैर्मणितः, स एव किसलयरूपोऽनन्तकायिकः प्रवृद्धि गच्छन् अनन्तो वा भवति परीत्तो वा, कथम् ?,
Jan Education
For Personal & Private Use Only
swamigrainelibrary.org