________________
सयेयजीवात्मक इति ॥९२॥ आह-किं बीजजीव एव मूलादिजीवो भवति उतान्यस्तस्मिन्नपक्रान्ते उत्पद्यते इति परप्रश्नमाशङ्कयाहबीए जोणिब्भूए जीवो वक्कमइ सो व अन्नो वा । जोविय मूले जीवो सोविय पत्ते पढमयाए ॥९३॥ सबोऽवि किसलओ खलु उग्गममाणो अणंतओ भणिओ । सो चेव विवढेतो होइ परित्तो अणंतो वा ॥ ९४॥ बीजे योनिभूते-योन्यवस्था प्राप्ते, योनिपरिणाममजहतीति भावः, बीजस्य हि द्विविधाऽवस्था, तद्यथा-योन्यवस्था अयोन्यवस्था च, तत्र यदा बीजं योन्यवस्थां न जहाति अथ च उज्झितं जन्तुना तदा तत् योनिभूतमित्यभिधीयते, उज्झितं च जन्तुना निश्चयतो नावगन्तुं शक्यते ततोऽनतिशायिना सम्प्रति सचेतनमचेतनं वा अविध्वस्तयोनि योनिभूतमिति व्यवहियते, विध्वस्तयोनि तु नियमादचेतनत्वादयोनिभूतमिति, अथ योनिरिति किमभिधीयते ?, उच्यते, जन्तोरुत्पत्तिस्थानं अविध्वस्तशक्तिक-तत्रस्थजीवपरिणमनशक्तिसम्पन्नमिति भावः, तस्मिन् बीजे योनिभूते जीवो 'व्युत्क्रामति' उत्पद्यते ' स एव ' पूर्वको बीजजीवः अन्यो वा आगत्य तत्रोत्पद्यते, किमुक्तं भवति ?-यदा बीजजीवनिर्वतकेन जीवेन वायुषः क्षयात् बीजपरित्यागः कृतो भवति, तस्य च बीजस्य पुनरम्बुकालावनिसंयोगरूपसामग्रीसंभवस्तदा कदाचित्स एव प्राक्तनो बीजजीवो मूलादिनामगोत्रे उपनिबध्य बीजे उत्पद्यते-तत्रागत्य परिणमति, कदाचिदन्यः पृथिवीकायिकादिजीवः, 'योऽपि च मूले जीव इति' य एव मूलतया परि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org