SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ eaeeeeeeeeeeeee वरा चासौ प्रसन्ना च वरप्रसन्ना, एते सर्वेऽपि मद्यविशेषाः पूर्वकाले लोकप्रसिद्धा इदानीमपि शास्त्रान्तरतो लोकतो वा यथाखरूपं वेदितव्याः, वरप्रसन्नाविशेषणान्याह-मांसला-उपचितरसा पेशला-मनोज्ञा मनोज्ञत्वादेव ईषत्-मनाक् ततः परम्परमाखादतया झटित्येवाग्रतो गच्छति ओष्ठेऽवलम्बते-लगतीत्येवंशीला ईषदोष्ठावल|म्बिनी तथा ईषत्-मनाक पानव्यवच्छेदे सति तत ऊर्च कटुका एलादिद्रव्यसम्पर्कतः उपलक्ष्यमाणतिक्तवीर्येतियावत् तथा ईषत्-मनाक् ताने अक्षिणी क्रियेते अनयेति ईषत्ताम्राक्षिकरणी मद्यस्य प्रायः सर्वस्यापि तथाखभावत्वात् 'उक्कोसमयपत्ता' इति उत्कर्षतीति उत्कर्षः स चासौ मदश्च उत्कर्षमदः तं प्राप्ता उत्कर्षमदप्राप्ता, एतदेव वर्णादिभिः समर्थयते-वर्णेनोत्कृष्टमदाविनाभाविना प्रशस्वेन गन्धेन प्राणेन्द्रियनितिकरण रसेन परमसुखासिकाजनकेन स्पर्शेन मदपरिपाकाव्यभिचारिणा अत एवाखादनीया विशेषतः खादनीया विखादनीया प्रीणयतीति प्रीणनीया 'कृद् बहुल मिति वचनात् कर्तर्यनीयप्रत्ययः, एवं दर्पयतीति दर्पणीया मदयतीति मदनीया सर्वाणीन्द्रियाणि सर्वच गात्रं प्रहादयति इति सर्वेन्द्रियगात्रप्रहादनीया, एतावत्युक्ते भगवान् गौतम आह-'भवेयारूवा ! भगवन् !एतद्रूपा-एवंरूपरसोपेता पद्मलेश्या भवेत् !, भगवानाह-'नो इणढे समडे' इत्यादि प्राग्वत् ॥ 'सुक्कलेस्सा णं भंते !' इत्यादि, गुडखण्डे प्रसिद्ध शर्करा-काशादिप्रभवा मत्स्यण्डी-खण्डशर्करा पर्पटमोदकादयः सम्प्रदायादवसेयाः, शेष सुगमं ॥ तदेवमुक्तो लेश्याद्रव्याणां रसः, सम्प्रति गन्धमभिधित्सुराह रिररररररर Jain Education International For Personal & Private Use Only wwww.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy