________________
प्रज्ञापनायाः मलय० वृत्तौ.
|१७लेश्यापदे उद्देश:
॥३६६॥
कइ णं भंते ! लेस्साओ दुब्भिगंधाओ पन्नत्ताओ?, गोयमा! तओ लेस्साओ दुब्भिगंधाओ पं० १, तं-कण्हलेस्सा नील. काउलेस्सा। कइ णं भंते ! लेस्साओ सुब्भिगंधाओ पन्नताओ?, गोयमा! तओ लेस्साओ सुब्भिगंधाओ पं०, तं० तेउ० पम्ह० सुक्क०, एवं तओ अविसुद्धाओ तओ विसुद्धाओ तओ अप्पसत्थाओ तओ पसत्थाओ तओ संकिलिट्ठाओ तओ असंकिलिट्ठाओ तओ सीतलुक्खाओ तओ निझुण्हाओ तओ दुग्गतिगामियाओ तओ सुगतिगामियाओ (सूत्रं २२८) 'कइ णं भंते !' इत्यादि, सुगम, नवरं कृष्णनीलकापोतलेश्या दुरभिगन्धाः मृतगवादिकडेवरेभ्योऽप्यनन्तगुणदुरभिगन्धोपेतत्वात् तेजःपद्मशुक्ललेश्याः सुरभिगन्धाः पिष्यमाणगन्धवाससुरभिकुसुमादिभ्योऽनन्तगुणपरमसुरभिगन्धोपेतत्वात् , उक्तं चोत्तराध्ययनेषु लेश्याध्ययने-"जह गोमडस्स गंधोणागमडस्स व जहा अहिमडस्स। एत्तो उ अणंतगुणो लेस्साणं अप्पसत्थाणं॥१॥जह सुरभिकुसुमगंधो गंध वासाण पिस्समाणाण । एत्तो उ अणंतगुणो पसस्थलेसाण तिण्हपि ॥२॥" [ यथा गोमृतकस्य गन्धो हस्तिमृतकस्य वा यथाऽहिमृतकस्य । इतोऽनन्तगुण एव लेश्यानामप्रशस्तानां ॥१॥ यथा सुरभिकुसुमगन्धो गन्धो वासानां पिष्यमाणानां । इतोऽनन्तगुण एव प्रशस्तानां लेश्यानां तिसृणामपि ॥२॥] उक्तो गन्धपरिणामः, अधुना शुद्धाशुद्धत्वप्रतिपादनार्थमाह-एवं तओ अविसुद्धाओ ततो विसुद्धाओ' इति, एवम्-उक्तेन प्रकारेण आद्यास्तिस्रो लेश्या अविशुद्धा वक्तव्याः, अप्रशस्तवर्णगन्धरसोपेतत्वात् , उत्तरास्तिस्रो लेश्या विशुद्धाः, प्रशस्तवर्णगन्धरसोपेतत्वात्, ततश्चैवं वक्तव्याः -'कइ णं भंते !
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org