________________
प्रज्ञापनाया: मलय० वृत्ती.
॥३५९॥
SSSSSSSSSSSSS
द्यते, उक्तं च-जलेसाई दवाइं परियाइत्ता कालं करेइ तल्लेसे उववजइ' इति, तथा स एव तिर्यग्मनुष्यो वा||१७ लेश्यातस्मिन्नेव भवे वर्तमानो यदा कृष्णलेश्यापरिणतो भूत्वा नीललेश्याभावेन परिणमते तदापि कृष्णलेश्यायोग्यानि ४ पदे उद्देशः द्रव्याणि तत्कालगृहीतनीललेश्यायोग्यद्रव्यसम्पर्कतो नीललेश्यायोग्यद्रव्यरूपतया परिणमन्ते, अमुमेवार्थ दृष्टान्तेन विभावयिषुः प्रथमं प्रश्नसूत्रमाह-से केणटेणं भंते ! इत्यादि, सुगमं भगवानाह-गौतम ! 'से जहानामए खीरे' इत्यादि, ततः लोकप्रसिद्धं यथानाम गोक्षीरम् अजाक्षीरं महिषीक्षीरमित्यादिनामकं क्षीरं 'सि'मिति देशीवचनादृष्यमेतत् मथितं तकं प्राप्यान्योऽन्यावयवसंस्पर्शनाविभागं गत्वा यथा च शुद्धं-मलरहितं समले हि रागः सम्पद्यमानोऽपि न तथारूपो लगति तत उक्तं शुद्धं वस्त्रं-चेलं रज्यतेऽनेनेति रागः 'करणे घञ्' तं-मजिष्ठादिकं प्राप्य तद्रूपतया-मञ्जिष्ठादिरागद्रव्यखभावतया, एतदेव व्याचष्टे-'तपूर्णतये'त्यादि, सुगमं, तथा कृष्णलेश्यायोग्यानि द्रव्याणि नीललेश्यायोग्यानि द्रव्याणि प्राप्य तद्रूपतया परिणमन्ते, इयमत्र भावना-यथा क्षीरलक्षणकारणगता रूपादयस्तकरूपादिभावं प्रतिपद्यन्ते यथा वा शुद्धवस्त्रकारणगता रूपादयो मजिष्ठादिरागद्रव्यरूपादिभावं प्रतिपद्यन्ते तथा कृष्णलेश्यायोग्यद्रव्यरूपकारणगता रूपादयो नीललेश्यायोग्यद्रव्यरूपादिभावं प्रतिपद्यन्ते, 'से ॥३५९॥ तेणटेण'मित्याधुपसंहारवाक्यं सुगम, एवं नीललेश्या कापोतलेश्यां प्राप्येत्यादीन्यपि चत्वारि सूत्राणि भावनीयानि, तदेवं पूर्वस्याः पूर्वस्या लेश्याया उत्तरामुत्तरां लेश्यां प्रतीत्य तद्रूपतया परिणमनमुक्तं, इदानीमेकैकस्याः लेश्याया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org