________________
यथायोगं क्रमेण शेषसमस्त लेश्या परिणमनमाह - ' से नूणं भंते ! कण्हलेसा नीललेस्सं काउलेस्स' मित्यादि, वाशब्दोऽत्र सर्वत्राप्यनुक्तो द्रष्टव्यः, नीललेश्यां वा कापोतलेश्यां वा यावत् शुक्ललेश्यां वा, एकस्या लेश्यायाः परस्परविरुद्धतया युगपदने कलेश्या परिणामासंभवात् शेषाऽक्षरगमनिका प्राग्वत्, अत्रैवार्थे दृष्टान्तमभिधित्सुरिदमाह'से केणणं भंते !' इत्यादि सुगमं, नवरं यथा वैडूर्यमणिरेक एव तत्तदुपाधिद्रव्यसम्पर्कतस्तद्रूपतया परिणमते तथैव तान्यपि कृष्णलेश्यायोग्यानि द्रव्याणि तत्तन्नीला दिलेश्यायोग्यद्रव्यसम्पर्कतस्तत्तद्रूपतया परिणमन्ते इति, एतावताऽंशेन दृष्टान्तो नतु पुनर्यथा वैडूर्यमणिः खखरूपमजहान स्तत्तदुपाधिद्रव्यसम्बन्धतस्तत्तदाकारमात्रभाजितया तत्तद्रूपतया परिणमते तथैतान्यपि कृष्णलेश्यायोग्यानि खखरूपमजहानान्येव द्रव्याणि तत्तन्नीला दिलेश्यायोग्यद्रव्यसम्पर्कतस्तत्तदा कारमात्रधारितया तत्तद्रूपतया परिणमन्ते इत्यनेनांशेन, तिरश्चां मनुष्याणां च लेश्याद्रव्याणां सामस्त्येन तद्रूपतया परिणामाभ्युपगमात्, अन्यथा नैरयिकदेव सत्कलेश्या द्रव्याणामिव तिर्यग्मनुष्याणामपि लेश्याद्रव्याणां सर्वथा स्वरूपापरित्यागेन चिरकालमवस्थानसंभवात्, यत उत्कर्षतोऽप्येषामन्तर्मुहूर्त्तलक्षणं स्थितिपरिमाणमन्यत्रोक्तं तद्विरुध्येत, पल्योपमत्रयमपि यावत् उत्कर्षतः स्थितिसंभवात्, तदेवं तदन्य लेश्यापञ्चकपरिणाममधिकृत्य कृष्णलेश्याविषयं सूत्रमुक्तं, एवं नीलादिलेश्याविषयाण्यपि प्रत्येकं तदन्यलेश्यापञ्चकपरिणाममधिकृत्य पञ्च सूत्राणि वक्तव्यानि तदेवं तिर्यङ्मनुष्याणां भवसङ्क्रान्तौ शेषकालं च लेश्याद्रव्यपरिणाम उक्तः, देवनैरयिकसत्कानि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org