________________
जाण बहुतरागं खेत्तं पासइ जाव वितिमिरतरागं पासह, से तेणट्टेणं गोयमा ! एवं बुच्चइ - काउलेस्से णं नेरइए नीललेस्सं नेरइयं पणिहाय तं चैव जाव वितिमिरतरागं खेत्तं पासइ || (सूत्रं २२३ )
'कण्हलेसे णं भंते !' इत्यादि, कृष्णलेश्यो भदन्त कश्चिन्नैरयिकोऽपरं कृष्णलेश्याकं प्रणिधाय — अपेक्ष्यावधिनाअवधिज्ञानेन सर्वतः - सर्वासु दिक्षु समन्ततः - सर्वासु विदिक्षु समभिलोकमानो - निरीक्षमाणः कियत् —- किंपरिमाणं क्षेत्रं जानाति कियद्वा क्षेत्रमवधिदर्शनेन पश्यति ?, भगवानाह - गौतम ! न बहु क्षेत्रं जानाति नापि बहु क्षेत्रं पश्यति, किमुक्तं भवति ? – अपरं कृष्णलेश्याकं नैरयिकमपेक्ष्य न विवक्षितः कृष्णलेश्याको योग्यतानुसारेणातिविशुद्धोऽपि नैरयिकोऽतिप्रभूतं क्षेत्रमवधिना जानाति पश्यति, एतदेवाह - न दूरम् - अतिविप्रकृष्टं क्षेत्रं जानाति नाप्यतिविप्रकृष्टं क्षेत्रं पश्यति, किं तु इत्वरमेव - खल्पमेवाधिकं क्षेत्रं जानाति इत्वरमेवाधिकं क्षेत्रं पश्यति, एतच्च सूत्रं समान पृथिवीककृष्ण लेश्यनैरयिक विषयमव सेयमन्यथा व्यभिचारसम्भवात् तथाहि - सप्तम पृथिवीगतः कृष्णलेश्याको नैरयिको जघन्यतो गव्यूतार्द्ध जानाति उत्कर्षतो गव्यूतं, षष्ठपृथिवीगतः कृष्णलेश्या को जघन्यतो गव्यूतमुत्कर्षतः सार्द्ध, पञ्चमपृथिवीगतः कृष्णलेश्याको जघन्यतः सार्द्धं गव्यूतमुत्कर्षतः किञ्चिदूने द्वे गव्यूते, ततो द्विगुणत्रिगुणाधिक क्षेत्र संभवाद् भवत्यधिकृत सूत्रस्य व्यभिचारः, यथा समानपृथिवीकमपरं कृष्णलेश्याकं नैरयिकमपेक्ष्यातिविशुद्धोऽपि कृष्णलेश्याको नैरयिको मनागधिकं पश्यति नातिप्रभूतं तथा दृष्टान्तेनोपपिपादयिषुराह - 'से केणट्ठे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org