________________
प्रज्ञापनाया: मल
य० वृत्तौ .
॥ ३५६ ॥
णं भंते !' इत्यादि, इयमत्र भावना - यथा समभूभागव्यवस्थित एव कश्चित् विवक्षितः पुरुषः चक्षुर्नैर्मल्यवशात् मनागधिकं पश्यति न प्रभूततरं तथा विवक्षितोऽपि कश्चित् कृष्णलेश्याको नैरयिकः स्वभूमिकानुसारेणातिविशुद्धोऽपि समानपृथिवीकमपरं कृष्णलेश्या कं नैरयिकमपेक्ष्य यदि परमवधिना मनागधिकं पश्यति न तु प्रभूततरं, अत्र समभूभागस्थानीया समाना पृथिवी स्वभूमिकासमाना च कृष्णरूपा लेश्या चक्षुः स्थानीयमवधिज्ञानमेतावता चैतदपि ध्वनितं - यथा समभूभागव्यवस्थितः पुरुषः सर्वतः समन्तादभिलोकमानो गर्त्तागतं पुरुषमपेक्ष्यातिप्रभूततरं पश्यति तथा पञ्चमपृथिवीगतः स्वभूमिकानुसारेणातिविशुद्धः कृष्णलेश्याको विवक्षितोऽपि नैरयिकः सप्तमपृथिवीगतं कृष्णलेश्याकमतिमन्दानुभागावधिनैरयिकमपेक्ष्यातिप्रभूतं पश्यति, मनागधिकत्रिगुणक्षेत्रसम्भवात् ॥ सम्प्रति नीललेश्याक विषयं सूत्रमाह - 'नीललेसे णं भंते! नेरइए कण्हलेसं नेरइयं पणिहाए' इत्यादि, अक्षरगमनिका सुगमा, नवरं 'वितिमिरतरागं खेत्तं जाणइ' इति विगतं तिमिरं - तिमिरसम्पाद्यो भ्रमो यत्र तद्वितिमिरं, इदं वितिमिरमिदं वितिमिरमनयोरतिशयेन वितिमिरं वितिमिरतरं 'द्वयोर्विभज्ये तर वि'ति तरप्प्रत्ययः, ततः प्राकृतलक्षणात् खार्थे कप्रत्ययः पूर्वस्य च दीर्घत्वं, अत एव विशुद्धतरं - निर्मलतरं अतीव स्फुटप्रतिभासमितियावत्, भावना त्वियंयथा धरणितलगतं पुरुषमपेक्ष्य पर्वतारूढः पुरुषोऽतिदूरं क्षेत्रं पश्यति तदपि प्रायः स्फुटप्रतिभासं तथा विवक्षितोऽपि नीललेश्याको नैरयिको योग्यतानुसारेणातिविशुद्धावधिः कृष्णलेश्याकं नैरयिकमपेक्ष्यातिदूरं वितिमिर
Jain Education International
For Personal & Private Use Only
१७ लेश्यापदे उद्देशः
३
॥ ३५६ ॥
www.jainelibrary.org