________________
Sसङ्ख्येयगुणः, तेभ्योऽपि तेजोलेश्या असङ्ख्येयगुणाः, तेजोलेश्या हि सौधम्मैशानदेवानां, ईशानदेवाश्चाङ्गुलमात्रक्षेत्र प्रदेशराशेः सम्बन्धिनि द्वितीयवर्गमूले तृतीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशाः तावत्प्रमाण ईशानकल्पगत देवदेवीसमुदायः, तद्वत किञ्चिदून द्वात्रिंशत्तमभागकल्पा देवाः, तेभ्योऽपि च सौधर्म्मकल्प देवाः सङ्ख्येयगुणाः, ततो भवन्ति पद्मलेश्येभ्यस्तेजोलेश्या असङ्ख्येयगुणाः, देव्यश्च सौधर्मेशानकल्पयोरेव तत्र च केवला तेजोलेश्या, ततो लेश्यान्तरासम्भवान्न तद्विषयं पृथग्सूत्रं अतः । सम्प्रति देवदेवीविषयं सूत्रमाह - 'एएसि णं भंते ! वेमाणियाणं देवाणं देवीण य' इत्यादि सुगमं, नवरं 'तेउलेसाओ बेमाणिणीओ देवीओ संखेजगुणाओ' इति, देवेभ्यो देवीनां द्वात्रिंशद्गुणत्वात् ॥ अधुना भवनपतिव्यन्तरज्योतिष्कवैमानिकविषयं सूत्रमाह - 'एएसि णं भंते ! भवणवासीय 'मित्यादि, तत्र सर्वस्तोका वैमानिका देवाः शुक्ललेश्याः, पद्मलेश्या असङ्ख्येयगुणाः, तेजोलेश्या असङ्ख्येयगुणा इत्यत्र भावनाऽनन्तरमेव कृता, तेभ्योऽपि भवनवासिनो देवास्तेजोलेश्याका असङ्ख्येयगुणाः, कथमिति चेद् ?, उच्यते, अङ्गुलमात्रक्षेत्र प्रदेशराशेः सम्बन्धिनि प्रथमवर्गमूले तृतीय वर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावान् प्रदेशराशिस्तावत्प्रमाणो भवनपतिदेवदेवीसमुदायः, तद्गतकिंचिदूनद्वात्रिंशत्तमभागकल्पा भवनपतयो देवाः, तत इमे प्रभूता इति घटन्ते सौधर्मे शानदेवेभ्यस्तेजोलेश्याका असङ्ख्येयगुणाः, तेभ्यः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org