________________
१७ लेश्यापदे उद्देशः
प्रज्ञापना-IN कापोतलेश्या भवनपतय एवासङ्ख्येयगुणाः, अल्पर्धिकानामप्यतिप्रभूतानां कापोतलेश्यासम्भवात्, तेभ्योऽपि भव-| या: मल- नवासिन एव नीललेश्या विशेषाधिकाः, युक्तिरत्र प्रागेवोक्ता, तेभ्योऽपि वानमन्तरास्तेजोलेश्याका असङ्ख्येयगुणाः, य० वृत्तौ. कथमिति चेद्, उच्यते, इह सङ्ख्येययोजनकोटीकोटीप्रमाणानि सूचिरूपाणि खण्डानि यावन्त्येकस्मिन्प्रतरे भवन्ति
1 तावान् व्यन्तरदेवदेवीसमुदायः, तद्गतकिंचिदूनद्वात्रिंशत्तमभागकल्पा व्यन्तरदेवाः, तत इमे भवनपतिभ्योऽतिप्र॥३५॥
भूततमा इत्युपपद्यते, कृष्णलेश्येभ्यो भवनपतिभ्यो वानमन्तरास्तेजोलेश्याका असङ्ख्येयगुणाः, तेभ्योऽपि वानमन्तरा एव कापोतलेश्याका असङ्ख्येयगुणाः, अल्पर्धिकानामपि कापोतलेश्याभावात् , तेभ्योऽपि वानमन्तरा नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, अत्रापि युक्तिः प्रागुक्ताऽनुसरणीया, तेभ्यस्तेजोलेश्या ज्योतिष्का देवाः सङ्ख्येयगुणाः, यतः षट्पञ्चाशदधिकाङ्गुलशतद्वयप्रमाणानि सूचिरूपाणि यावन्ति खण्डान्यकस्मिन् प्रतरे भवन्ति तावत्प्रमाणो ज्योतिष्कदेवदेवीसमुदायः, तद्भगतकिञ्चिनद्वात्रिंशत्तमभागकल्पा ज्योतिष्कदेवाः, ततः कृष्णलेश्येभ्यो वानमन्तरेभ्यः सङ्ख्येयगुणा एव घटन्ते ज्योतिष्कदेवा न त्वसङ्ख्ययगुणाः, सूचिरूपखण्डप्रमाणहेतोः सङ्ख्येययोजनकोटीकोट्यपेक्षया षट्पञ्चाशदधिकाङ्गुलशतद्वयस्य सङ्ख्येयभागमात्रवर्त्तित्वात् ॥ सम्प्रति भवनवास्यादिदेवदेवीविषयं तदनन्तरं भवनवास्यादिदेवदेवीसमुदायविषयं सूत्रमाह-एतच सूत्रद्वयमपि प्रागुक्तभावनानुसारेण भावनीयं । सम्प्रति लेश्याविशिष्टानामल्पर्द्धिकत्वमहर्द्धिकत्वे प्रतिपिपादयिषुरिदमाह-'एएसि णं भंते ! जीवाण
॥३५१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org