SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ Coelaceaeeeeeeeeeee पञ्चेन्द्रियेष्वल्पबहुत्वमाह-एएसि णं भंते !' इत्यादि, ‘एवं जहा ओहिया' इति एवम्-उपदर्शितेन प्रकारेणयथा प्रागोघिकास्तथा वक्तव्याः, नवरमलेश्यावर्जाः, तिरश्चामलेश्यानामसंभवात् , ते चैवं-सर्वस्तोकाः तिर्यग्योनिकाः शुक्ललेश्याः, ते च जघन्यपदेऽप्यसङ्ख्याता द्रष्टव्याः, तेभ्य सङ्ख्येयगुणाः पद्मलेश्याः, तेभ्योऽपि सङ्ख्येयगुणास्तेजोलेश्याः, तेभ्योऽप्यनन्तगुणाः कापोतलेश्याः, तेभ्योऽपि नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णेलश्या विशे-| षाधिकाः, तेभ्योऽपि सलेश्या विशेषाधिकाः। साम्प्रतमेकेन्द्रियेष्वल्पबहुत्वमाह-एएसि णं भंते ! एगिदियाण'मित्यादि, सर्वस्तोका एकेन्द्रियास्तेजोलेश्याः, कतिपयेषु बादरपृथिव्यवनस्पतिकायिकेष्वपर्याप्तावस्थायां तस्याः सद्भावात् , तेभ्यः कापोतलेश्या अनन्तगुणाः, अनन्तानां सूक्ष्मवादरनिगोदजीवानां कापोतलेश्यासद्भावात् , तेभ्योऽपि नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, अत्र भावना प्रागेवोका । सम्प्रति पृथिवीकायिकादिविषयमल्पबहुत्वं वक्तव्यं, तत्र पृथिव्यववनस्पतिकायानां चतस्रो लेश्याः तेजोवायूनां तिस्र इति तथैव सूत्रमाह-एएसि णं भंते ! पुढविकाइयाण' मित्यादि, सुगम, द्वित्रिचतुरिन्द्रियविषयमपि, पञ्चेन्द्रियतिर्यग्योनिकसूत्रे कापोतलेश्या असङ्ख्यातगुणा नत्वनन्तगुणाः, पञ्चेन्द्रियतिरश्चां सर्वसङ्ख्ययाऽप्यसङ्ख्यातत्वात् , संमूछिमपञ्चेन्द्रियतिरश्वां यथा तेजस्कायिकानामुक्तं तथा वक्तव्यं. तेजस्कायिकानामिव तेषामप्याद्यलेश्यात्रयमात्रसद्भावात् , गभेव्युक्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकसूत्रे तेजोलेश्याभ्यः कापोतलेश्या असत्येयगुणा वक्तव्याः, तावतामेव तेषां केवलवे Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy