________________
प्रभूतो निर्जीर्ण इति विशुद्धवर्णाः, एतच समानस्थितिकासुरकुमारविषयं सूत्रं, ‘एवं लेस्साएऽवी'ति एवं वर्णसूत्र-181 वत् लेश्यासूत्रमपि वक्तव्यं, पूर्वोत्पन्नाः अविशुद्धलेश्या वक्तव्याः पश्चादुत्पन्ना विशुद्धलेश्या इति भावः, काऽत्र भावनेति चेदच्यते-इह देवानां नैरयिकाणां च तथाभवखाभाव्यात् लेश्यापरिणाम उपपातसमयात् प्रभृत्याभवक्षयाद भवति, यतो वक्ष्यति तृतीये लेश्योद्देशके-से नूणं भंते ! कण्हलेसे नेरइए कण्हलेसेसु नेरइएसु उववजइ कण्हलेसे उवट्टइ, जलेसे उववजइ तल्लेसे उबट्टइ ?' इति, अस्यायं भावार्थः-पञ्चेन्द्रियतिर्यग्योनिको मनुष्यो वा नरकेषत्पद्यमानो यथाक्रमं तिर्यगायुषि मनुष्यायुषि वा क्षीणे नैरयिकायुः संवेदयमान ऋजुसूत्रनयदर्शनेन विग्रहेऽपि वर्तमानो नारक एव लभ्यते तस्य च कृष्णादिलेश्योदयः पूर्वभवायुषि अन्तर्मुहूर्तावशेषायुष्के एव वर्तमानस्य भवति, तथा चोक्तम्-"अन्तमुहुत्तम्मि गए अन्तमुहुत्तम्मि सेसए चेव । लेस्साहि परिणयाहिं जीवा वचंति परलोयं ॥१॥" [अन्तर्मुहर्ते गतेऽन्तर्मुहूर्ते शेष एव । लेश्यायाः परिणामे जीवा ब्रजन्ति परलोकम् ॥१॥] एवं देवेष्वपि भावनीयं, तथा लेश्याध्ययने नैरयिकादिषु कृष्णादिलेश्यानां जघन्योत्कृष्टा च स्थितिरियमुक्ता-"दस वाससहस्साई काऊऍ ठिई। जहनिया होइ । उक्कोसा तिन्नुदही पलियस्स असंखभागं च ॥१॥ नीलाएँ जहन्नठिई तिन्नुदहि असंखभाग पलियं | च । दस उदही उक्कोसा पलियस्स असंखभागं च ॥२॥ कण्हाए जहन्नठिई दस उदही असंखभाग पलियं च । तित्तीससागराइं मुहत्तअहियाई उक्कोसा ॥३॥ एसा नेरइयाणं लेसाण ठिई उ वनिया इणमो। तेण परं वोच्छामि
-20729939808092002020
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org