________________
अगतिया समाउआ समोववनगा अत्थेगतिया समाज्या विसमोववन्नगा अत्थेगतिया विसमाउया समोववन्नगा अत्थेगतिया विसमाउया चिसमोववन्नगा, से तेणद्वेणं गो० ! एवं बुच्चइ-नेरइया नो सबै समाउया नो सवे समोववन्नगा (सूत्रं २०८) 'नेरइया णं भंते ! सङ्घे समकिरिया' इत्यादि, समाः – तुल्याः क्रियाः – कर्म्मनिबन्धनभूता आरम्भिक्यादिका येषां ते समक्रियाः 'चत्तारि किरियाओ कजंति' इति क्रियन्ते इति कर्म्मकर्त्तरिप्रयोगः तेन भवन्तीत्यर्थः, आरम्भः - पृथिव्याद्युपमर्दनं स प्रयोजनं - कारणं यस्याः सा आरंभिकी 'परिग्गहिय'त्ति परिग्रहो — धर्मोपकरणत्रर्जवस्तुस्वीकारः धम्र्मोपकरणमूर्च्छा स च प्रयोजनं यस्याः सा पारिग्रहिकी 'मायावत्तिया' इति माया -- अनार्जवमुपलक्षणत्वात् क्रोधादिरपि स च प्रत्ययः - कारणं यस्याः सा मायाप्रत्यया 'अपचक्खाणकिरिया' इति अप्रत्याख्यानेन - निवृत्त्यभावेन क्रिया-कर्मबन्धकारणं अप्रत्याख्यानक्रियेति, 'नियइयाओ' इति नैयतिक्यो नियता इत्यर्थः अवश्यं - भावित्वात् सम्यग्रदृष्टीनां त्वनियताः संयतादिषु व्यभिचारात्, 'मिच्छादंसणवत्तिय'त्ति मिथ्यादर्शनं प्रत्ययः - कारणं यस्याः सा मिध्यादर्शनप्रत्यया, ननु मिथ्यात्वाविरर्तिकषाययोगाः कर्म्मबन्धहेतव इति प्रसिद्धिः, इह तु आरम्भिक्यादयस्तेऽभिहिता इति कथं न विरोधः १, उच्यते, इहारम्भपरिग्रहशब्दाभ्यां योगः परिगृहीतो, योगानां तद्रूपत्वात् शेषपदैस्तु शेषा बन्धहेतव इत्यदोषः, 'सबै समाउआ' इत्यादेः प्रश्नस्य या निर्वचनचतुर्भङ्गी तद्भावना क्रियते - निबद्धदशवर्षसहस्रप्रमाणायुषो युगपञ्चोत्पन्ना इति प्रथमो भङ्गः, तेषु एव दशवर्षसहस्र स्थितिषु नरकेषु एके
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org