________________
वर्णाः, पश्चादुत्पन्नस्तु नाद्यापि प्रभूतो निर्जीर्ण इति ते अविशुद्धतरवर्णाः, एतदपि समानस्थितिनैरयिकविषयमवसेयं, अन्यथा पूर्वोक्तरीत्या व्यभिचारसंभवात् , 'एवं जहेव बन्ने भणिया' इत्यादि, एवम्-उक्तेन प्रकारेण यथैव वणे भणितास्तथैव लेश्याखपि वक्तव्याः , तद्यथा-'नेरइया णं भंते ! सच्चे समलेस्सा १, गोयमा! नो इण? समढे' इत्यादि, सुगमं चैतत् , नवरं पूर्वोत्पन्ना विशुद्धलेश्याः यस्मात्पूर्वोत्पन्नः प्रभूताम्यप्रशस्तलेश्याद्रव्याणि अनुभूव अनुभूय क्षयं नीतानि तस्मात्ते विशुद्धलेश्याः, इतरे पश्चादुत्पन्नतया विपर्ययादविशुद्धलेश्याः, एतदपि लेश्यासूत्रं समानस्थितिकनैरयिकापेक्षमवसेयं । समवेदनपदोपलक्षितार्थाधिकारप्रतिपादनार्थमाह-'नेरइया णं भंते !' इत्यादि, समवेदनाः-समानपीडाः 'सन्निभूया य' इति संजिनः-संज्ञिपञ्चेन्द्रियाः सन्तो भूता-नारकत्वं गताः संज्ञिभूताः ते महावेदनाः, तीवाशुभाध्यवसायेनाशुभतरकर्मबन्धनेन महानरकेषुत्पादात् , असज्ञिन:-असज्ञिपञ्चेन्द्रियाः सन्तो भूता असज्ञिभूताः, असज्ञिनो हि चतसृष्वपि गतिषूत्पद्यन्ते, तद्योग्यायुर्बन्धसंभवात् , तथा चोक्तम्-“काविहे गं भंते ! असन्निआउए पन्नत्ते ?, गोयमा ! चउबिहे असन्निआउए पन्नत्ते, तंजहा-नेरइयअसन्निआउए तिरिक्खजोणियअसन्निआउए मणुस्सजोणियअसन्निआउए देवअसन्निआउए" इति, तत्र देवेषु नैरयिकेषु च असञ्ज्यायुषो जघन्यतः स्थितिर्दश वर्षसहस्राणि उत्कर्षतः पल्योपमासङ्ख्येयभागः, तिर्यक्षु मनुष्येषु च जघन्यतोऽन्तर्मुहूर्त उत्कर्षतः पल्योपमासङ्ख्येयभागः, एवं चासञ्जिनः सन्तो ये नरकेषूत्पद्यन्ते तेऽतितीवाशुभाध्यवसायाभावात् रत्नप्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org