________________
प्रज्ञापनया: मल
य० वृत्तौ .
॥३३३॥
रीराः सन्तो लोमाहारापेक्षया नाहारयन्ति उच्छ्वासापर्याप्तकत्वेन च नोच्नुसन्ति, अन्यदा त्वाहारयन्ति उच्चसन्ति चेत्यत [आहे ] - 'आहच आहारयन्ति आहच ऊससंती' त्युक्तं । 'से एएणद्वेण' मित्यादि निगमनवाक्यं सुगमं । संप्रति समकर्मत्वाधिकारमाह - 'नेरइयाण' मित्यादि 'पुवोववन्नगा य पच्छोववन्नगा य' इति पूर्व - प्रथमं उपपन्नाः पूर्वोत्पन्नाः त एव 'खार्थिकः क' इति कप्रत्ययविधानात् पूर्वोत्पन्नकाः, एवं पश्चादुत्पन्नकाः, तत्र पूर्वोत्पन्नपश्चादुत्पन्नानां मध्ये ये पूर्वोत्पन्नास्तैर्नर कायुर्नरकगत्य सातवे दनीयादिकं प्रभूतं निर्जीर्णमल्पं विद्यत इति अल्पकर्म्मतरकाः, इतरे तद्विपर्ययात् महाकर्म्मतरकाः, एतच्च समानस्थितिका ये नारकास्तानधिकृत्य प्रणीतमवसेयं, अन्यथा हि रवप्रभायां उत्कृष्टस्थितेर्नारकस्य बहुन्यायुषि क्षयमिते पल्योपमावशेषे च तिष्ठति तस्यामेव रक्तप्रभायां दशवर्षसहस्त्रस्थितिर्नारकोऽन्यः कश्चिदुत्पन्नः स किं प्रागुत्पन्नं पल्योपमावशेषायुषं नारकमपेक्ष्य वक्तुं शक्यो यथा महाकम्र्मेति १, वर्णसूत्रे 'विशुद्धवर्णतरका' इति विशुद्धतरवर्णा इत्यर्थः, कथमिति चेद्र, उच्यते, इह यस्मान्नैरयिकाणामप्रशस्तवर्णनामकर्म्मगोऽशुभस्तीत्रोऽनुभागोदयो भवापेक्षः, तथा चोक्तम् - " कालभवखेत्तवेक्खो उदओ सविवागअविवागो" [कालभवक्षेत्रापेक्ष उदयः सविपाकोऽविपाकः ] नन्वायूंषि तत्र भवचिपाकानि उक्तानि तत्कथमप्रशस्तवर्णनामकर्मण उदयो भवापेक्षो वर्ण्यते ?, सत्यमेतत्, तथाप्यसौ वर्णनामकर्मणोऽप्रशस्तस्त्रोदयस्तीत्रानुभागो ध्रुवश्च भवापेक्षः पूर्वाचार्यैर्व्यवहृतः, स पूर्वोत्पन्नैः प्रभूतो निर्जीर्णः स्तोकः शेषोऽवतिष्ठते, पुद्गलविपाकि च वर्णनाम, तेन पूर्वोत्पन्ना विशुद्धतर
Jain Education International
For Personal & Private Use Only
१७ लेश्यापदम्
॥ ३३३॥
www.jainelibrary.org