________________
बृहच्छरीरोऽप्यल्पमश्नाति कश्चिदल्पशरीरोऽपि भूरि भुङ्क्ते, तथाविधमनुष्यवत्, नारकाः पुनरुपपातादिसद्वेधानुभावादन्यत्रासद्वेद्योदय वर्त्तित्वादेकान्तेन यथा महाशरीराः दुःखितास्तीत्राहाराभिलाषाश्च भवन्ति तथा नियमादू बहुतरान्पुद्गलानाहारयन्ति तथा बहुतरान् पुद्गलान् परिणामयन्ति, आहारपुद्गलानुसारित्वात् परिणामस्य, परिणामश्चापृशेऽप्याहारकार्यमित्युक्तः, तथा 'बहुतराए पुग्गले उस्ससंति' इति बहुतरान् पुद्गलान् उच्छ्वासतया गृह्णन्ति 'नीससंति' इति निःश्वासतया मुञ्चन्ति महाशरीरत्वादेव, दृश्यन्ते हि बृहच्छरीरास्तजातीयेतरापेक्षया बहूच्छासनिःश्वासा इति, दुःखिता अपि तथैव दुःखिताश्च नारका इति । आहारस्यैव कालकृतं वैषम्यमाह - 'अभिक्खण' मित्यादि, अभीक्ष्णं - पौनःपुन्येनाहारयन्ति, ये यतो महाशरीरास्ते तदपेक्षया शीघ्रशीत्रतराहारग्रहणस्खभावा इत्यर्थः, अभीक्ष्णं उच्चसन्ति अभीक्ष्णं निःश्वसन्ति, महाशरीरत्वेन दुःखिततरत्वादनवरतमुच्छ्वासादि कुर्वन्तीति भावः, 'तत्थ णं जे ते' इत्यादि, 'जे ते' इति इह ये इत्येतावतैवार्थसिद्धौ ये ते इति (यद्) उच्यते तद्भाषामात्रमेव, अल्पशरीरास्ते अल्पतरान् पुद्गलानाहारयन्ति, ये यतोऽल्पशरीरास्ते तदाहरणीयपुद्गलापेक्षया अल्पतरान् पुद्गलानाहारयन्ति, अल्पशरीरत्वादेवेति भावार्थ:, 'आहच आहारयन्ति' इति कदाचिदाहारयन्ति कदाचिन्नाहारयन्ति, महाशरीराहारग्रहणान्त|रालापेक्षया बहुतरकालान्तरतयेत्यर्थः 'आहच्च ऊससंति आहच्च नीससंति' एते हि अल्पशरीरत्वेनैव महाशरीरापेक्षया अल्पतरदुःखत्वादाहच्च - कदाचित् सान्तरमित्यर्थः, उच्छ्वासादि कुर्वन्तीति भावः, अथवा अपर्याप्तिकाले अल्पश
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org