________________
प्रज्ञापना- नेरइयभवोववायगई देवभवो तिरिक्खजोणियभवो० मणुस्सभवोक्वायगई' इति, तत्र नारकत्वादिभवत्वेनोत्पन्नाना १७लेश्याया: मल- जीवानामुपपातसमयादारभ्य आहाराद्यर्थसम्भवोऽवश्यंभावी ततो लेश्याप्रक्रमेऽपि तेषामुपन्याससूत्रं । 'यथोद्देश पदम् य.वृत्ती.
निर्देश' इति न्यायात् प्रथमं समाहारा इत्यादिप्रश्नोपलक्षितमर्थाधिकारमाह-'नेरइया णं भंते' इत्यादि प्रश्नसूत्र
सुगम, भगवानाह-'गोयमा' इत्यादि, नायमर्थः समर्थः-नायमर्थो युक्त्युपपन्न इति भावः, पुनः प्रश्नयति-'से ॥३३२॥
केणटेण'मित्यादि, सेशब्दोऽथशब्दार्थः, अथ केनार्थेन-केन प्रयोजनेन केन प्रकारेणेति भावः भदन्त । एवमुच्यतेनैरयिकाः सर्वं समाहारा इत्यादि , भगवानाह-'गोयमे त्यादि, इहाल्पत्वं महत्त्वं चापेक्षिकं, तत्र जघन्यमल्पत्वं अङ्गलासङ्ख्ययभागमात्रत्वं उत्कृष्टं महत्त्वं पञ्चधनुःशतमानत्वं, एतच भवधारणीयशरीरापेक्षया, उत्तरवैक्रियापेक्षया तु जघन्यमल्पत्वं अङ्गुलसङ्ख्यातभागमात्रत्वं इतरद्धनुःसहस्रमानत्वं, एतावता च किं समशरीरा इत्यस्य प्रश्नस्योत्तरमुक्तं । अथ शरीरप्रश्नो द्वितीयस्थानोक्तः तत्कथमस्य प्रथमत एव निर्वचनमुक्तं ?, उच्यते, शरीरविषमताभिधाने | सति आहारोच्छ्रासयोर्वेषम्यं सुप्रतिपादितं भवतीति द्वितीयस्थानोक्तस्यापि शरीरप्रश्नस्य प्रथमं निवेचनमुक्तं ।। इदानी आहारोच्छ्रासयोर्निर्वचनमाह-तत्थ णमित्यादि, 'तत्र' अल्पशरीरमहाशरीररूपराशिद्वयमध्ये 'ण' मिति | ॥३३॥
वाक्यालङ्कारे ये यतो महाशरीरास्ते तदपेक्षया बहुतरान् पुद्गलानाहारयन्ति महाशरीरत्वादेव, दृश्यते हि लोके बृहलिच्छरीरो बह्वाशी यथा हस्ती, अल्पशरीरोऽल्पभोजी शशकवत्, बाहुल्यापेक्षं चेदमुदाहरणमुपन्यस्यते, अन्यथा कोऽपि
300020200029202902
Ca
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org