________________
ते च परमार्थतः कषायखरूपा एव तदन्तर्गतत्वात्, केवलं योगान्तर्गतद्रव्यसहकारिकारण भेदवैचित्र्याभ्यां ते कृष्णादिभेदैर्भिन्नाः तारतम्यभेदेन विचित्राश्चोपजायन्ते, तेन यद् भगवता कर्मप्रकृतिकृता शिवशम्र्माचार्येण शतकाख्ये ग्रन्थेऽभिहितं “ठिइअणुभागं कसायओ कुणइ" इति तदपि समीचीनमेव, कृष्णादिलेश्या परिणामानामपि कषायोदयान्तर्गतानां कषायरूपत्वात् तेन यदुच्यते कैश्चिद् - योगपरिणामत्वे लेश्यानां "जोगा पयडिपएसं ठिहअणुभागं कसायओ कुणइ” इति वचनात् प्रकृतिप्रदेशबन्धहेतुत्वमेव स्यान्न कर्म्मस्थितिहेतुत्वमिति, तदपि न समीचीनं, यथोक्तभावार्थापरिज्ञानात्, अपि च-न लेश्याः स्थितिहेतवः, किंतु कषायाः, लेश्यास्तु कषायोदयान्तर्गताः अनुभागहेतवः, अत एव च ' स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण' इत्यत्रानुभागप्रतिपत्त्यर्थं पाकग्रहणं, एतच सुनिश्चितं कर्म्मप्रकृतिटीकादिषु ततः सिद्धान्तपरिज्ञानमपि न सम्यक् तेषामस्ति, यदप्युक्तम्- 'कर्म्मनिष्यन्दो लेश्या, निष्यन्दरूपत्वे हि यावत् कषायोदयः तावन्निष्यन्दस्यापि सद्भावात् कर्म्मस्थितिहेतुत्वमपि युज्यते एवेत्यादि, तदप्यश्लीलं लेश्यानामनुभागबन्धहेतुतया स्थितिबन्धहेतुत्वायोगात्, अन्यच्च - कर्म्मनिष्यन्दः किं कर्म्मकल्क उत कर्म्मसारः, न तावत्कर्म्मकल्कः, तस्यासारतयोत्कृष्टानुभाग बन्धहेतुत्वानुपपत्तिप्रसक्तेः, कल्को हि असारो भवति असारश्च कथमुत्कृष्टानुभागबन्धहेतुः १ अथ चोत्कृष्टानुभागबन्धहेतवोऽपि लेश्या भवन्ति, अथ कर्म्मसार इति पक्षस्तर्हि कस्य कर्म्मणः सार इति वाच्यं १, यथायोगमष्टानामपीति चेत् अष्टानामपि कर्म्मणां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org