________________
प्रज्ञापनायाः मल- य० वृत्ती.
॥३३॥
चिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्त्तते ॥ १॥" अथ कानि कृष्णादीनि | १६ प्रयोद्रव्याणि ?, उच्यते, इह योगे सति लेश्या भवति, योगाभावे च न भवति, ततो योगेन सहान्वयव्यतिरेकदर्शनात् गपदं योगनिमित्ता लेश्यति निश्चीयते, सर्वत्रापि तन्निमित्तत्वनिश्चयस्यान्वयव्यतिरेकदर्शनमूलत्वात् , योगनिमित्ततायामपि विकल्पद्वयमवतरति-किं योगान्तर्गतद्रव्यरूपा योगनिमित्तकमद्रव्यरूपा वा?, तत्र न तावद्योगनिमित्तकर्मद्रव्यरूपा, विकल्पद्वयानतिक्रमात् , तथाहि-योगनिमित्तकमद्रव्यरूपा सती घातिकर्मद्रव्यरूपा अघातिकर्मद्रव्यरूपा वा ?, न तावद् घातिकमद्रव्यरूपा, तेषामभावेऽपि सयोगिकेवलिनि लेश्यायाः सद्भावात् , नापि अघातिकर्मरूपा, तत्सद्भावेऽपि अयोगिकेवलिनि लेश्याया अभावात् , ततः पारिशेष्यात् योगान्तर्गतद्रव्यरूपा प्रत्येया, तानि च योगान्तर्गतानि द्रव्याणि यावत्कषायास्तावत्तेषामप्युदयोपबृंहकाणि भवन्ति, दृष्टं च योगान्तर्गतानां द्रव्याणां कषायोदयोपबृंहणसामर्थ्य, यथा पित्तद्रव्यस्य, तथाहि-पित्तप्रकोपविशेषादुपलक्ष्यते महान् प्रवर्द्धमानः कोपः, अन्यच्च बाह्यान्यपि द्रव्याणि कर्मणामुदयक्षयोपशमादिहेतव उपलभ्यन्ते, यथा-बायौषधिर्ज्ञानावरण[स्य क्षयोपशमस्य सुरापानं ज्ञानावरणोदयस्य, कथमन्यथा युक्तायुक्तविवेकविकलतोपजायते, दधिभोजनं निद्रारूपदर्श-S॥३०॥ नावरणोदयस्य, तत्किं योगद्रव्याणि न भवन्ति ?, तेन यः स्थितिपाकविशेषो लेश्यावशादुपगीयते शास्त्रान्तरे स सम्यगुपपन्नः, यतः स्थितिपाको नामानुभाग उच्यते, तस्य निमित्तं कपायोदयान्तर्गतकृष्णादिलेश्यापरिणामाः.
dain Education International
For Personal & Private Use Only
www.janelibrary.org