________________
गतिरिति व्युत्पत्तेः, तद्विपरीता अस्पृशद्गतिः, यत्परमाण्वादिकमन्येन परमाण्वादिना सह परस्परसम्बन्धमननुभूय गच्छति यथा परमाणुरेकेन समयेन एकस्माल्लोकान्तादपरं लोकान्तमिति, उपसंपद्यमानगतिर्यदन्यमुपसम्पद्य-आश्रित्य तदवष्टम्भेन गमनं यथा धनसार्थवाहावष्टम्भेन धर्मघोषसूरीणां, अनुपसम्पद्यमानगतिर्यत् परस्परमुपष्टम्भरहितानां पथि गमनं, मण्डूकगतिर्यत् मण्डूकस्येवोत्प्लुत्य गमनं, नावागतिर्यन्नावा महानद्यादौ गमनं, नयगतिर्यन्नयानां नैगमादीनां खखमतपोषणं अथवा यन्नयानां सर्वेषां परस्परसापेक्षाणां प्रमाणावाधितवस्तुव्यवस्थापनं सा नयगतिः, छाया गतिः - छायामनुसृत्य तदुपष्टम्भेन वा समाश्रयितुं गतिः छायागतिः, छायानुपातगतिरिति छायायाः खनि|मित्त पुरुषादेरनुपातेन - अनुसरणेन गतिः छायानुपातगतिः, तथाहि — छाया पुरुषमनुसरति न तु पुरुषः छायामतश्च्छायाया अनुपातगतिः, लेश्यागतिर्यत्तिर्यमनुष्याणां कृष्णादिलेश्याद्रव्याणि नीलादिलेश्याद्रव्याणि सम्प्राप्य तद्रूपादितया परिणमन्ति सा लेश्यागतिरिति, लेश्यानुपातगतिरिति लेश्याया अनुपातः - अनुसरणं तेन गतिर्लेश्यानुपातगतिः, लेश्याया इत्यत्र विग्रहवेलायां कर्मणि षष्ठी, यतो वक्ष्यति - ' यानि लेश्याद्रव्याणि पर्यादाय जीवः कालं करोति तल्लेश्येषूपजायते न शेषलेश्येषु' ततो जीवो लेश्याद्रव्याण्यनुसरति, न तु तानि जीवमनुसरन्तीति, 'उद्दिश्यप्रविभक्तगति' रिति प्रविभक्तं - प्रतिनियतमाचार्यादिकमुद्दिश्य यत्तत्पार्श्वे गच्छति सा उद्दिश्यप्रविभक्तगतिः, 'चतुः पुरुषप्रविभक्तगति' रिति चतुर्द्धा पुरुषाणां प्रविभक्तगतिः चतुःपुरुषप्रविभक्तगतिः, तच्चतुर्द्धात्वं 'समगं पज्जवट्ठिया'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org