SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ १६प्रयो प्रज्ञापनायाः मलयवृत्ती. गपदं ॥३२८॥ जीवेन व्यापार्यमाणानां यथायोगमल्पबहुदेशान्तरगमनात् १ । 'ततगई' इति तता–विस्तीर्णा सा चासौ गतिश्च ततगतिः, तथाहि-यं ग्रामं सन्निवेशं वा प्रति प्रतिष्ठितो देवदत्तादिस्तं ग्रामादिकं यावदद्यापि न प्राप्नोति ताव-15 दन्तरा पथि एकैकस्मिन् पदन्यासे तत्तद्देशान्तरप्राप्तिलक्षणा गतिरस्तीति ततगतिः, इयं विस्तीर्णत्वविशेषणात् पृथगुपात्ता, अन्यथा प्रयोगगतावेवेयमन्तर्भवति, पादन्यासस्य शरीरप्रयोगात्मकत्वात् , एवमुत्तरत्रापि यथायोगं परिभावनीयं २ तथा 'बंधणछेयणगई' इति, बन्धनस्य छेदनं बन्धनच्छेदनं तस्मात् गतिवन्धनच्छेदनगतिः, सा च जीवेन विमुक्तस्य शरीरस्य शरीराद्वा विच्युतस्य जीवस्यावसातव्या, न तु कोशसम्बन्धविच्छेदादेरण्डवीजादेः, तस्या विहायोगतिभेदत्वेन वक्ष्यमाणत्वात् ३। 'उववायगई' इति, उपपातः-प्रादुर्भावः, स च क्षेत्रभवनोभवभेदात् त्रिविधः, तद्यथा-क्षेत्रोपपातो भवोपपातो नोभवोपपातश्च, तत्र क्षेत्रं-आकाशं यत्र नारकादयो जन्तवः सिद्धाः पुद्गला वा अवतिष्ठन्ते, भवः-कर्मसम्पर्कजनितो नैरयिकत्वादिकः पर्यायः, भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति |भव इति व्युत्पत्तेः, नोभवः-भवव्यतिरिक्तः कर्मसम्पर्कसम्पाद्यनैरयिकत्वादिपर्यायरहित इति भावः, स च पुद्गलः सिद्धो वा, उभयस्यापि यथोक्तलक्षणभवातीतत्वात् , उपपात एव गतिरुपपातगतिरिति ४ । विहायसा-आकाशेन गतिर्विहायोगतिः, सा चोपाधिभेदात् सप्तदशविधा, तद्यथा-स्पृशद्दतिरित्यादि, तत्र परमाण्वादिकं यदन्येन परमाण्वादिकेन परस्परं संस्पृश्य संस्पृश्य-सम्बन्धमनुभूयानुभूयेत्यर्थः इति भावः गच्छति सा स्पृशद्दतिः, स्पृशतो 7090920992002029290920 ॥३२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy