________________
प्रज्ञापना
याः मल
य० वृत्तौ.
॥३१८॥
विप्रतारणबुद्धिपूर्वकमसत्येऽन्तर्भवति अन्यन्तु सत्ये, तच तन्मनश्च तस्य प्रयोगोऽसत्याऽमृषामनः प्रयोगः । एवं 'वइप्पओगोवि चउहा' इति, यथा मनःप्रयोगश्चतुर्द्धा तथा वाक्प्रयोगोऽपि चतुर्द्धा तद्यथा - सत्यवाक्प्रयोगो मृषावाक्प्रयोगः सत्यामृषावाक्प्रयोगः असत्यामृषावाक्प्रयोगः, एताश्च सत्यवागादयः सत्यमनःप्रभृतिवद्भावनीया इति । 'ओरालिय सरीरका प्पओगे' इति औदारिकादिशब्दार्थमग्रे वक्ष्यामः, औदारिकमेव शरीरं तदेव पुद्गलस्कन्धसमुदायरूपत्वात् उपचीयमानत्वाच्च कायः औदारिकशरीरकायः तस्य प्रयोगः औदारिकशरीरकायप्रयोगः, अयं च तिरश्चो मनुष्यस्य च पर्याप्तस्य १, 'औदारिक मिश्रकायशरीरप्रयोग' इति औदारिकं च तन्मिश्रं च औदारिकमिश्र, केन सह मिश्रितमिति चेत् ?, उच्यते, कार्मणेन, तथा चोक्तं नियुक्तिकारण शस्त्र (आहार) परिज्ञाध्ययने - ' जोएणं कम्मएणं आहारेइ अनंतरं जीवो । तेण परं मीसेणं जाव सरीरस्स निष्पत्ती ॥ १ ॥ [ योगेन कार्मणेनाहारयत्यनन्तरं जीवः । ततः परं मिश्रेण यावत् शरीरस्य निष्पत्तिः ॥ १ ॥ ] ननु मिश्रत्वमुभयनिष्ठं, तथाहि —यथा औदारिकं कार्मणेन मिश्रं तथा कार्मणमपि औदारिकेण मिश्रं ततः कस्मादौदारिकमिश्रमेव तदुच्यते न कार्मणमिश्रमिति १, उच्यते, इह व्यपदेशः स प्रवर्त्तनीयो येन विवक्षितार्थप्रतिपत्तिर्निष्प्रतिपक्षा श्रोतॄणामुपजायते, अन्यथा संदेहापत्तितो विवक्षि तार्थप्रतिपत्त्या न तेषामुपकारः कृतः स्यात्, कार्मणं च शरीरमासंसारमविच्छेदेनावस्थितत्वात् सकलेष्वपि शरी| रेषु सम्भवति, ततः कार्मणमिश्रमित्युक्ते न ज्ञायते किं तिर्यग्मनुष्याणामपर्याप्तावस्थायां तद्विवक्षितमुत देवनारका
Jain Education International
For Personal & Private Use Only
१६ प्रयो
गपदं
॥३१८॥
www.jainelibrary.org