SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ त्ययः, भगवानाह - पञ्चदशविधः प्रज्ञप्तः, तदेव पञ्चदशविधत्वं दर्शयति- 'सचमणप्पओगे' इत्यादि, सन्तो- मुनयः पदार्था वा तेषु यथासङ्ख्यं मुक्तिप्रापकत्वेन यथावस्थितवस्तुखरूपचिन्तनेन च साधु सत्यं - अस्ति जीवः सदसद्रूपो देहमात्रव्यापीत्यादिरूपतया यथावस्थितवस्तुचिन्तनपरं, सत्यं च तत् मनश्च सत्यमनः तस्य प्रयोगो - व्यापारः सत्यमनप्रयोगः, 'असच्च मणप्पओगे' इति, सत्यविपरीतमसत्यं यथा - नास्ति जीवः एकान्तसद्रूपो वेत्यादिकुविकल्पनपरं तच तन्मनश्च तस्य प्रयोगोऽसत्यमनः प्रयोगः, 'सच्च मोसमणप्पओग' इति सत्यमृषा - सत्यासत्ये यथा धवखदिरपलाशादिमिश्रेषु बहुष्वशोकवृक्षेषु अशोकवनमेवेदमिति विकल्पनपरं तत्र हि कतिपयाशोकवृक्षाणां सद्भावात् | सत्यता अन्येषामपि धवखदिरादीनां सद्भावादसत्यता, व्यवहारनयमतापेक्षया चैवमुच्यते, परमार्थतः पुनरिदम सत्य - मेव, यथाविकल्पितार्थायोगात्, तच तन्मनश्चेत्यादि प्राग्वत्, तथा 'असच्चामोसमणप्पओगे' इति यन्न सत्यं नापि मृषा तदसत्यामृषा, इह विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठासया सर्वज्ञमतानुसारेण विकल्प्यते यथा अस्ति जीवः सदसद्रूप इति तत्किल सत्यं परिभाषितमाराधकत्वात्, यत्पुनर्विप्रतिपत्तौ सत्यां यद्वस्तुप्रतिष्ठाशयाऽपि सर्वज्ञमतोत्तीर्ण विकल्प्यते यथा नास्ति जीवः एकान्तनित्यो वेत्यादि तदसत्यं विराधकत्वात्, यत्पुनर्वस्तुप्रतिष्ठासामन्तरेण खरू - |पमात्र पर्यालोचनपरं यथा - देवदत्तात् ३ घट आनेतव्यो गौर्याचनीया इत्यादिचिन्तनपरं तत् असत्यामृषा, इदं हि स्वरूपमात्रपर्यालोचनपरत्वात् न यथोक्तलक्षणं सत्यं नापि मृषा, एतदपि व्यवहारनयमतापेक्षया द्रष्टव्यं, अन्यथा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy