SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ आह च भाष्यकृत्-"जिजइ जेणत्यो घडोब दीवेण वंजणं तं च । उवगरणिंदियसहाइपरिणयहव्वसंबंधो॥१॥" [[व्यज्यते येनार्थो घट इव दीपेन व्यञ्जनं, तच्चोपकरणेन्द्रियशब्दादिपरिणतद्रव्यसंबन्धः॥१॥] व्यञ्जनेन-सम्बन्धेनावग्रहणं-सम्बध्यमानस्य शब्दादिरूपस्यार्थस्याव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, अथवा व्यज्यन्ते इति व्यअनानि 'कृद्वहुल'मिति वचनात् कर्मण्यनद , व्यञ्जनानां-शब्दादिरूपतया परिणतानां द्रव्याणामुपकरणेन्द्रियसम्प्राप्तानामवग्रहः-अव्यक्तरूपः परिच्छेदो व्यअनावग्रहः, आह-प्रथमं व्यञ्जनावग्रहो भवति ततोऽर्थावग्रहस्ततः कस्मादिह प्रथममर्थावग्रह उपन्यस्तः१, उच्यते, स्पष्टतयोपलभ्यमानत्वात् , तथाहि-अर्थावग्रहः स्पष्टरूपतया सर्वैरपि जन्तुभिः |संवेद्यते, शीघ्रतरगमनादौ सकृत्सत्त्वरमुपलभ्यते, किञ्चिद् दृष्टं न परिभावितं सम्यगिति व्यवहारदर्शनात् , अपिच अर्थावग्रहः सर्वेन्द्रियमनोभावी व्यञ्जनावग्रहस्तु नेति प्रथममर्थावग्रह उक्तः । सम्प्रति व्यञ्जनावग्रहादूर्व अर्थावग्रह इति क्रममाश्रित्य प्रथमं व्यञ्जनावग्रहखरूपं प्रतिपिपादयिषुः प्रश्नं कारयति शिष्यं-'वंजणोग्गहे णं भंते ! कइविहे पं.' इत्यादि, इह व्यअनमुपकरणेन्द्रियस्य शब्दादिपरिणतद्रव्याणां च परस्परं सम्बन्ध इत्युक्तं प्राक्, ततश्चतुर्णामेव श्रोत्रादीनामिन्द्रियाण व्यअनावग्रहो न नयनमनसोः, तयोरप्राप्यकारित्वात् , सा चाप्राप्यकारिता नन्धध्ययनटीकायां प्रदर्शितेति नेह प्रदश्यते, अर्थावग्रहः षविधः, तद्यथा-'सोइंदियअत्थुग्गहे' इत्यादि, श्रोत्रेन्द्रियेणाथावग्रहो व्यञ्जनावग्रहोत्तरकालमेकसामयिकमनिर्देश्यं सामान्यमात्रार्थग्रहणं श्रोत्रेन्द्रियार्थावग्रहः, एवं प्राणजिह्वा Jain Education Internalonal For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy