________________
स्पर्शनेन्द्रियार्थावग्रहेष्वपि वाच्यं, चक्षुर्मनसोस्तु व्यञ्जनावग्रहो न भवति, ततस्तयोः प्रथममेव खरूपद्रव्यगुणक्रिया-18१५ इन्द्रिप्रज्ञापनाया: मल
IS कल्पनातीतमनिर्देश्यसामान्यमात्रखरूपार्थावग्रहणमर्थावग्रहोऽवसेयः, 'नोइंदियअत्थावग्गहो' इति नोइन्द्रियं-मनः, यपदे |तच द्विधा-द्रव्यरूपं भावरूपं च, तत्र मनःपर्याप्तिनामकर्मोदयतो यत् मनःप्रायोग्यवर्गणादलिकमादाय मनस्त्वेन ,
| उद्देशः२ य० वृत्ती.
परिणमनं तद् द्रव्यरूपं मनः, तथा चाह नन्द्यध्ययनचूर्णिकृत्-'मणपजत्तिनामकम्मोदयओ जोग्गे मणोदवे पित्तुं ॥३१॥ मणत्तेण परिणामिया दवा दवमणो भन्नइ"इति, तथा द्रव्यमनोऽवष्टम्भेन जीवस्य यो मनःपरिणामः स भावमनः,
तथा चाह नन्द्यध्ययनचूर्णिकृदेव-"जीवो पुण मणपरिणामकिरियावंतो भावमणो, किं भणियं होइ ?-मणदवालंबणो जीवस्स मणवावारो भावमणो भण्णइ" इति, तत्रेह भावमनसा प्रयोजनं, तद्ग्रहणे ह्यवश्यं द्रव्यमनसो|ऽपि ग्रहणं भवति, द्रव्यमनोऽन्तरेण भावमनसोऽसम्भवात्, भावमनो विनापि च द्रव्यमनो भवति यथा भवस्थकेवलिनां, तत उक्तं भावमनसा प्रयोजनं, तत्र नोइंद्रियेण-भावमनसाऽर्थावग्रहो-द्रव्येन्द्रियव्यापारनिरपेक्षघटाद्यर्थखरूपपरिभावनाभिमुखः प्रथममेकसामयिको रूपाधूर्खाकारादिविशेषचिन्ताविकलोऽनिर्देश्यसामान्यमात्रचिन्तात्मको बोधो नोइंद्रियार्थावग्रहः, अवग्रहग्रहणं चोपलक्षणं तेन नोइंद्रियार्थावग्रहस्य साक्षादितरयोस्तु (ईहापाय उपलक्षणत उपादानं, विचित्रत्वात् सूत्रगतेरित्यदोषः। कतिविहा गं भंते ! इंदिया पं०१, गो! दुविहा पं०, तं०-दबिंदिया य भाविंदिया य, कति णं भंते ! दबिंदिया,
9999999999999
॥३१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org