________________
प्रज्ञापनायाः मलय० वृत्तौ.
१५ इन्द्रियपदे उद्देशः२
॥३१०॥
वणस्सइकाइयाणं, एवं बेइंदियाणवि, नवरं बेइंदियाणं वंजणोग्गहे दुविहे पं० अत्थोग्गहे दुविहे पं०, एवं तेइंदियचउरिंदियाणवि, णवरं इंदियपरिवुड्डी कायबा, चउरिंदियाणं वंजणोग्गहे तिविधे पं० अत्थोग्गहे चउविधे पं०, सेसाणं जहा नेरइयाणं जाव वेमाणियाणं ९-१० (सूत्रं २००) 'कतिविहे णं भंते ! इंदियअवाए पं०' इत्यादि, तत्रावग्रहज्ञानेनावगृहीतस्य ईहाज्ञानेन ईहितस्यार्थस्य निर्णयरूपो योऽध्यवसायः सोऽपायः, शाङ्ख एवायं शाङ्ग एव वायं इत्यादिरूपोऽवधारणात्मको निर्णयोऽवाय इति भावः।ईहा इति, 'ईह चेष्टायां' ईहनमीहा, सद्भूतार्थपर्यालोचनरूपा चेष्टा इत्यर्थः, किमुक्तं भवति?-अवग्रहादुत्तरकालमवा सद्भतार्थविशेषोपादानाभिमुखोऽसद्भतार्थविशेषपरित्यागाभिमुखःप्रायोऽत्र मधुरत्वादयः शङ्खादिशब्दधा दृश्यन्ते नकर्कशनिष्ठुरतादयः शाङ्गादिशब्दधा इत्येवंरूपो मतिविशेष ईहा, आह च भाष्यकृत-"भूयाभूयविसेसादाणच्चाया| भिमुहमीहा" । [भूताभूतविशेषादानत्यागाभिमुख्यमीहा] 'दुविहे ओग्गहे पं०, तं०-वंजणोग्गहे य अत्थोग्गहे य'इति, मवग्रहो द्विविधः-अर्थावग्रहो व्यञ्जनावग्रहश्च, तत्र अवग्रहणमवग्रहः अर्थस्यावग्रहोऽर्थावग्रहः, अनिर्देश्यसामान्यरूपाद्यर्थग्रहणमिति भावः, आह च नन्द्यध्ययनचूर्णिकृत्-“सामन्नस्स रूवाइविसेसणरहियस्स अनिद्देस्सस्समवग्गहणंअवग्गह" इति, तथा व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, तच उपकरणेन्द्रियस्य शब्दादिपरिणतद्रव्याणां च यः परस्परं सम्बन्धः, सम्बन्धे हि सति सोऽर्थः श्रोत्रादीन्द्रियण व्यजितुं शक्यते नान्यथा ततः सम्बन्धो व्यञ्जनं,
॥३१०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org