________________
तदीयान ॥२॥ इति । एवं स्थूणासत्रमपि भावनीयं । 'आगासधिग्गले णं भंते !' इत्यादि. आकाशथि लोकः, स हि महतो बहिराकाशस्य विततपटस्य थिग्गलमिव प्रतिभाति, भदन्त ! केन 'स्पृष्टो' व्याप्तः, एतत्सामस्त्येन पसलदेव विशेषतः प्रश्नयति–कतिभिः' कियत्सजयाकैः कायैः स्पृष्टः, वाशब्द: पक्षान्तरद्योतनार्थः, प्रकारान्तर च सामान्याद्विशेषतः, तान् कायान् प्रत्येकं पृच्छति-'किं धम्मत्थिकाएणं फुडे!' इत्यादि सुगम, भगवानाह-गौतम! धर्मास्तिकायेन स्पृष्टः, धर्मास्तिकायस्य सर्वात्मना तत्रावगाढत्वात् , अत एव नो धर्मास्तिकायस्य देशेन स्पृष्टो, यो हि येन सर्वात्मना व्याप्तो नासौ तस्यैव देशेन व्याप्तो भवति, विरोधात्, प्रदेशैस्तु व्याप्तः, सर्वेषामपि धर्मास्तिकायप्रदेशानां तत्रावगाढत्वात् , एवमधर्मास्तिकायविषयेऽपि निर्वचनं वाच्यं, तथा नो आकाशास्तिकायेन सकलेन द्रव्येण स्पृष्टः, आकाशास्तिकायदेशमात्रत्वाल्लोकस्य, किन्तु देशेन व्याप्तः, प्रदेशैश्च पृथिव्यादयोऽपि सूक्ष्माः सकललोकापन्ना वर्तन्ते ततस्तैरपि सर्वात्मना व्याप्तः, 'तसकाएणं सिय फुडे' इति, यदा केवली समुद्घातं गतः सन् चतुर्थे समये वर्तते तदा तेन खप्रदेशैः सकललोकपूरणात् त्रसकायेन स्पृष्टः, केवलिनस्त्रसकायत्वात् , शेषकालं तु न स्पृष्टः, सर्वत्र त्रसकायानामभावात् , एवं जम्बूद्वीपादिविषयाण्यपि सूत्राणि भावनीयानि, नवरं बहिःपुष्करार्द्धचिन्तायां 'अद्धासमएणं &न फुडे' इति, अद्धासमयो बर्द्धतृतीयद्वीपसमुद्रान्तर्वर्ती न बहिः, एतच धर्मसङ्ग्रहणिटीकायां भावितं, ततो बहि
पसमुद्राणामद्धासमयस्पर्शनप्रतिषेधः, 'जंबुद्दीवे लवणे' गाहा, सर्वद्वीपसमुद्राणामभ्यन्तरवर्ती जम्बूद्वीपस्तत्परिक्षेपी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org