________________
प्रज्ञापनाया: मल-1 य० वृत्ती.
काएहिं जहा आगासथिग्गले । अलोएणं भंते ! किंणा फुडे कतिहिं वा काएहिं पुच्छा, गो० ! नो धम्मत्थिकारणं फुडे जाव नो आगासत्थिकाएणं फुडे आगासत्थिकायस्स देसेणं फुडे, नो पुढविकाइएणं फुडे, जाव नो अद्धासमएणं फुडे, एगे अजीवदबदेसे अगुरुलहुए अणंतेहिं अगुरुलहुयगुणेहिं संजुत्ते सवागासअणंतभागूणे ॥ (सूत्रं १९८)॥ १६१ ॥ इंदियपयस्स पढमो उद्देसो ॥
१५ इन्द्रियपदे उद्देशः १
॥३०६॥
'कंबलसाडए णं भंते !' इत्यादि, कम्बलशाटकः-कम्बलरूपः शाटकः कम्बलशाटक इति व्युत्पत्तेः आवेष्टितपरिवेटितः-गाढतरं संवेलितः, एवंभूतः सन् यावदवकाशान्तरं, यावत आकाशप्रदेशानित्यर्थः, 'स्पृष्ट्वा' अवगाह्य तिष्ठति |'विरल्लिएवी'ति विरल्लितोऽपि विरलीकृतोऽपि तावदेवावकाशान्तरं-तावत एवाकाशप्रदेशान् स्पृष्ट्वा तिष्ठति ?, भग-15 वानाह-हंता गोयमा !'इत्यादि, हंतेति प्रत्यवधारणं, एवमेतत् गौतम ! यत् 'कम्बलसाडए णं' इत्यादि, तदेवं एषोऽत्र सङ्केपार्थः-यावत एवाकाशप्रदेशान् संवेलितः सनू कम्बलशाटकोऽवगाह्यावतिष्ठते तावत एवाकाशप्रदेशान् । ततोऽप्यवगाह्यावतिष्ठते, केवलं घनप्रतरमात्रकृतो विशेषः, प्रदेशसङ्ख्या तूभयत्रापि तुल्या, उक्तश्चायमर्थोऽन्यत्रापि नेत्रपटमधिकृत्य-"जह खलु महप्पमाणो नेत्तपडो कोडिओ म(न)हगंमि । तंमिवि तावइए चिय फुसइ पएसे (विरलिएवि)" यथैव महाप्रमाणो नेत्रपटः संकुचितो नभोभागे । तावत एव स्पृशति विततोऽपि प्रदेशान्
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International