________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥३०७॥
लवणसमुद्रस्तदनन्तरं धातकीखण्डाभिधानो द्वीपस्ततः कालोदः समुद्रः तदनन्तरं पुष्करवरो द्वीपः, अत ऊर्ध्वं द्वीपसदृशनामानः समुद्राः, ततः पुष्करवरसमुद्रः तदनन्तरं वरुणवरो द्वीपो वरुणवरः समुद्रः क्षीरवरो द्वीपः क्षीरोदः समुद्रः, घृतवरो द्वीपो घृतोदः समुद्रः, इक्षुवरो द्वीपो इक्षुवरः समुद्रः, नन्दीश्वरो द्वीपो नन्दीश्वरः समुद्रः एतेऽष्टावपि च समुद्रा एकप्रत्यवताराः, एकैकरूपा इति भावः, अत ऊर्ध्वं द्वीपाः समुद्राश्व त्रिप्रत्यवताराः, तद्यथा - अरुण इति अरुणोऽरुणवरो अरुणवरावभासः कुण्डलः कुण्डलवरः कुण्डलवरावभासः रुचको रुचकवरो रुचकवरावभास इत्यादि, एष चात्र क्रमः - नन्दीश्वरसमुद्रानन्तरं अरुणो द्वीपोऽरुणः समुद्रः, ततोऽरुणवरो द्वीपोऽरुणवरः समुद्र इत्यादि कियन्तः खलु नामग्राहं द्वीपसमुद्राः वक्तुं शक्यन्ते ? ततस्तन्नामसङ्ग्रहमाह - ' आभरणवत्थे' त्यादिगाथाद्वयं, यानि कानिचिदाभरणनामानि - हारार्द्धहाररलावलिकनकावलिप्रभृतीनि यानि च वस्त्रनामानि - चीनांशुकप्रभृतीनि यानि च गन्धनामानि - कोष्ठपुटादीनि यानि चोत्पलनामानि - जलरुहचन्द्रोद्योतप्रमुखानि यानि च तिलकप्रभृतीनि वृक्षनामानि यानि च पद्मनामानि - शतपत्रसहस्रपत्रप्रभृतीनि यानि च पृथिवीनामानि - पृथिवीरन शर्करवालुके त्यादीनि यानि च नवानां निधीनां चतुर्दशानां चक्रवर्त्तिरत्नानां चुल्लहिमवदादिकानां वर्षधरपर्वतादीनां पद्मादीनां प्रदानां गङ्गासिन्धुप्रभृतीनां नदीनां कच्छादीनां विजयानां माल्यवदादीनां वक्षस्कारपर्वतानां सौधर्म्मादीनां कल्पानां शक्रा - दीनामिन्द्राणां देवकुरुउत्तरकुरुमन्दराणामावासानां - शक्रादिसम्बन्धिनां मेरुप्रत्यासन्नादीनां कूटानां क्षुल्लहिमवदा
Jain Education International
For Personal & Private Use Only
१५ इन्द्रि यपदे
उद्देशः १
॥३०७॥
www.jainelibrary.org