________________
त्मानं ?, अत्रात्मशब्देन शरीरमभिगृह्यते, उत 'पलिभाग'मिति प्रतिभागं प्रतिबिम्बं?, भगवानाह-आदर्श तावत प्रेक्षत एव, तस्य स्फुटरूपस्य यथावस्थिततया तेनोपलम्भात् ,आत्मानं-आत्मशरीरं पुनर्न पश्यति, तस्य तत्राभावात् , खशरीरं हि खात्मनि व्यवस्थितं नादर्श ततः कथमात्मशरीरं च तत्र पश्येदिति ?, प्रतिभागं-खशरीरस्य प्रतिबिम्ब पश्यति, अथ किमात्मकं प्रतिबिम्बं?, उच्यते, छायापुद्गलात्मकं, तथाहि-सर्वमैन्द्रियकं वस्तु स्थूलं चयापचयधर्मकं रश्मिवच, रश्मय इति छायापुद्गलाः, व्यवहियन्ते च छायापुद्गलाः प्रत्यक्षत एव सिद्धाः, सर्वस्यापि स्थूलवस्तुनः छाया, अध्यक्षतःप्रतिप्राणि प्रतीतेः, अन्यच्च यदि स्थूलवस्तु व्यवहिततया दूरस्थिततया वा नादर्शादिष्ववगाढरश्मिर्भवति ततो न तत्र तदृश्यते तस्मादवसीयते सन्ति छायापुद्गला इति, ते च छायापुद्गलास्तत्तत्सामग्रीवशाद्विचित्रपरिणम-| नखभावास्तथाहि-ते छायापुद्गला दिवा वस्तुन्यभाखरे प्रतिगताः सन्तः खसंबंधिद्रव्याकारमाबिभ्राणाः श्यामरू-| पतया परिणमन्ते निशि तु कृष्णाभाः, एतच प्रसरति दिवसे सूर्यकरनिकरे निशि तु चन्द्रोद्योते प्रत्यक्षत एव सिद्धं, त एव छायापरमाणवः आदर्शादिभाखरद्रव्यप्रतिगताः सन्तः खसंबंधिद्रव्याकारमादधानाः यादृग् वर्णः खसम्बन्धिनि द्रव्ये कृष्णो नीलः शितः पीतो वा तदाभाः परिणमन्ते, एतदप्यादर्शादिष्वध्यक्षतः सिद्धं, ततोऽधिकृतसूत्रेऽपि ये मनु-18 प्यस्य छायापरमाणव आदर्शमुपसंक्रम्य खदेहवर्णतया खदेहाकारतया च परिणमन्ते तेषां तत्रोपलब्धिर्न शरीरस्य, ते 8 च प्रतिबिम्बशब्दा वाच्या अत उक्तं-न शरीरं पश्यति किन्तु प्रतिभागमिति, नैवैतत् खमनीषिकाविज़म्भितं, यत
999999999999900
dan Education International
For Personal & Private Use Only
www.jainelibrary.org