________________
प्रज्ञापनायाः मलय. वृत्ती.
॥३०॥
पपन्नकाः उपपत्तिप्रथमसमयवर्तिन इत्यर्थः, परम्परया उपपन्नकाः परम्परोपपन्नकाः, उत्पत्त्यनन्तरं द्वित्रादिसमयव-१५ इन्द्रितिन इत्यर्थः, तत्रानन्तरोपपन्नका न जानन्ति न पश्यन्ति, तेषां एकसामयिकोपयोगासम्भवादपर्याप्तित्वाच, परम्परो- यपदे । पपन्नका अपि द्विधा-पर्याप्तका अपर्याप्तकाश्च, तत्रापर्याप्ता न जानन्ति न पश्यन्त्यपर्याप्तत्वेन सम्यगुपयोगासम्भ- उद्देशः१ वात् , पयोप्ता अपि द्विधा-उपयुक्ताः अनुपयुक्ताश्च, तत्रानुपयुक्ता न जानन्ति न पश्यन्ति, सामान्यरूपतया विशेपरूपतया वा परिच्छेदस्य प्रणिधानमन्तरेण कर्तुमशक्यत्वात् , ये तूपयुक्तास्ते जानन्ति पश्यन्ति च, कथमिति चेत् उच्यते-इहावश्यके अवधिज्ञानविषयचिन्तायामिदमुक्तं-"संखेज कम्मदवे लोगे थोवूणगं पलियं' अस्यायमर्थःकर्मद्रव्याणि-कर्मशरीरद्रव्याणि पश्यन् क्षेत्रतो लोकस्य सङ्ख्येयान् भागान् पश्यति, अनुत्तरसुराश्च सम्पूर्णी लोकनाडी पश्यन्ति, “सम्भिन्नलोगनालिं पासंति अणुत्तरा देवा" [पश्यन्त्यनुत्तरा देवाः संपूर्णी लोकनाडी] इति वचनात् , ततस्ते उपयुक्ता जानन्ति पश्यन्ति चावधिज्ञानेन तानिर्जरापुद्गलानिति, आहारयन्तीति च सर्वत्रापि लोमाहारेणेति प्रतिपत्तव्यं । इन्द्रियाधिकारादयमपि प्रश्नः-..
अद्दायं पेहमाणे मणूसे अदायं पेहति अत्ताणं पेहइ पलिभागं पेहति ?, गो! अदायं पेहति नो अप्पाणं पेहति पलिभागं पेहति, एवं एतेणं अभिलावेणं असिं मणिं दुद्धं पाणं तेल्लं फाणियं वसं (सूत्रं १९७) 'अदायं पेहमाणे' इत्यादि, 'अहाय'मिति आदर्श 'पेहमाणे' इति प्रेक्षमाणो मनुष्यः किमादर्श प्रेक्षते आहोश्चिदा
eeeeeeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org