________________
हन्तीति सिद्धं, पुद्गलानां तत्तत्सामग्रीवशतो विचित्रपरिणमनखभावतया आहाररूपतयाऽपि तेषां परिणमनसम्भवात् ,
केवलमेतद् प्रष्टव्यं-ते नैरयिका जानन्तीत्यादि, प्राकृतत्वात् क्रियाहेतुत्वेऽपि वर्तमाना, ततोऽयमर्थः-जानन्तः पश्यन्त आहारयन्ति उताजानन्तोऽपश्यन्त इति !, भगवानाह-अजानन्तोऽपश्यन्त इति, कस्मादिति चेत् ?, उच्यते, तेषामतिसूक्ष्मतया चक्षुरादिपथातीतत्वात् नैरयिकाणां च कार्मणशरीरपुद्गलालम्बनावधिज्ञानविकलत्वात् । एवमसुरकुमारादिविषयाण्यपि सूत्राणि तावद् वाच्यानि यावत्तिर्यकपञ्चेन्द्रियसूत्रं । मनुष्यसूत्रे 'सन्निभूया य' इति संज्ञिनो भूताः संज्ञिभूताः संज्ञित्वं प्राप्ता इत्यर्थः, तद्यतिरिक्ताः असंज्ञिभूताः, संज्ञी चेह विशिष्टावधिज्ञानी परिगृह्यते यस्य ते कार्मणशरीरपुद्गला विषयभावं बिभ्रति, शेषं सुगमं । वैमानिकसूत्रे 'मायीमिच्छट्टिी इत्यादि, माया-तृतीयः कषायः साऽन्येषामपि कषायाणामुपलक्षणं माया विद्यते येषां ते मायिन उत्कटरागद्वेषा इत्यर्थः ते च ते मिथ्यादृष्टयश्च मायिमिथ्यादृष्टयस्तथारूपा उपपन्नका-उपपन्ना मायिमिथ्यादृष्टघुपपन्नकास्तविपरीता अमायिसम्यग्दृष्टयुपपनकाः, इह मायिमिथ्यादृष्टयुपपन्नकग्रहणेन नवमवेयकपर्यन्ताः परिगृह्यन्ते, यद्यप्यारातीयेष्वपि कल्पेषु अवेयकेषु च सम्यग्दृष्टयो देवाः सन्ति तथापि तेषामवधिन कार्मणशरीरपुद्गलविषय इति तेऽपि मायिमिथ्यादृष्टयुपपन्नका इव मायिमिथ्यादृष्टयुपपन्नका इत्युपमानतो मायिमिथ्यादृष्टयुपपन्नकशब्देनोच्यन्ते, ये त्वमायिसम्यग्दृष्टयुपपन्नकास्तेऽनुत्तरसुराः, तेऽपि द्विविधा-तद्यथा-अनन्तरोपपन्नकाः परम्परोपपन्नकाश्च, अनन्तरम्-अव्यवधानेनोपपन्नकाः अनन्तरो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org