________________
|१५इन्द्रि
प्रज्ञापनायाः मलय० वृत्तौ.
यपदे
उद्देशः १
॥३०॥
पश्यति च, यथोक्तम्-"सबतो जाणइ केवली सवतो पासइ केवली" [ सर्वतो जानाति केवली सर्वतः पश्यति केवली] स्तुतिकारोऽप्याह-"समन्ततः सर्वगुणं निरक्ष"मिति, छमस्थस्त्वङ्गोपाङ्गनामकर्मविशेषसंस्कृतैरेवेन्द्रियद्वारैर्जानाति पश्यति चेति छद्मस्थग्रहणं, अत एवेह छद्मस्थो विशिष्टावधिज्ञानविकलः परिगृह्यते, तेषां निर्जरापुद्गलानां 'आणत्त'मिति अन्यत्वं, द्वयोरनगारयोः सम्बन्धिनोर्ये निर्जरापुद्गलाः तेषां परस्परं भिन्नत्वमिति भावः 'नानात्वं'परनिरपेक्षमेकस्यैव वर्णादिकृतं वैचित्र्यं 'ओमत्वं' अवमता हीनत्वमितियावत् 'तुच्छत्वं निःसारता 'गुरुलघुत्वे'प्रतीते, भगवानाह-नायमर्थः समर्थः, नायमों युक्त्युपपन्नः, छद्मस्थमनुष्यस्तेषां निर्जरापुद्गलानामन्यत्वादिकं जानाति पश्यति, अत्रैवार्थे प्रश्नमाह-से केणटेणं भंते' इत्यादि, सुगम, भगवानाह-'देवेवि य ण'मित्यादि, देवोऽप्यस्त्येकः कश्चित्कर्मपुद्गलविषयावधिज्ञानविकलो यस्तेषां निर्जरापुद्गलानां न किञ्चिदप्यन्यत्वादिकं जानाति पश्यति वा, किमुक्तं भवति?-देवानां किल मनुष्येभ्यः पटुतराणि इन्द्रियाणि विद्यन्ते, तत्र देवोऽपि तावन्न जानाति न पश्यति वा किमुत मनुष्य इति ?, 'से एएण'मित्याधुपसंहारवाक्यं सुगम, 'सुहुमा णं ते'इत्यादि, एतावन्मानेन सूक्ष्मास्ते पुद्गलाः निर्जरापुद्गलाः प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् !, गौतमस्य भगवत्कृतं सम्बोधनमेतत् , सर्वलोकमपि ते एवंरूपाः अत्यन्तसूक्ष्माः पुद्गलाः अवगाह्य तिष्ठन्ति पुद्गलाः न तु बादररूपाः, अन्यथा सांव्यवहारिकप्रत्यक्षविरोधप्रसक्तेः, सर्वलोकस्पर्शिनस्ते पुद्गलास्ततोऽयमपि प्रश्नः-'नेरइया णं भंते !' इत्यादि, नैरयिकास्तावत्तान् निर्जरापुद्गलानाहारय
॥३०॥
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org