SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ सहस्रगुणितं येन प्रमाणाङ्गुलं ततः॥१॥] अत्र तस्मादात्माङ्गुलेनैवेन्द्रियाणां विषयपरिमाणं नोत्सेधाङ्गुलेनेति उपसंहारवाक्यं खतः परिभावनीयं, यदप्युक्तं प्राक 'देहाश्रितानीन्द्रियाणीति तेषां विषयपरिमाणमुच्छ्याङ्गुलेने'ति, तदप्ययुक्तं, इन्द्रियाणामपि केषाञ्चित् पृथुत्वस्य आत्माङ्गुलेन मीयमानत्वाभ्युपगमात् , भावितं चैतत्प्रागपि इन्द्रियप्रमाणचिन्तायां 'भयणिज'मित्यादिभाष्यकारवचनावष्टम्भनेनेति, तस्मात् सर्वमिन्द्रियविषयपरिमाणमात्माङ्गुलेनैवेति स्थितं, ननु भवत्वात्माङ्गुलेन विषयपरिमाणं तथाप्यधिकृतसूत्रोक्तं चक्षुरिन्द्रियविषयपरिमाणं न घटते, अधिकस्यापि तद्विषयपरिमाणस्यागमान्तरे प्रतिपादनात् , तथाहि-पुष्करवरद्वीपार्द्ध मानुषोत्तरपर्वतसमीपवर्त्तिनो मनुष्याः कर्कसङ्कान्तौ प्रमाणाङ्गुलनिष्पन्नः सातिरेकैरेकविंशतियोजनलझर्व्यवस्थितमादित्यमवलोकमानाः प्रतिपाद्यन्ते शास्त्रान्तरे, तथा च तद्ग्रन्थः-"इगवीसं खलु लक्खा चउतीसं चेव तह सहस्साई। तह पंचसया भणिया सत्तत्तीसाए अतिरित्ता ॥१॥ इइ नयणविसयमाणं पुक्खरदीवद्धवासिमणुयाणं । पुवेण य अवरेण य पिहं पिहं होइ मणुयाणं ॥२॥"इत्यादि [ एकविंशतिः खलु लक्षाश्चतुर्विंशतिश्चैव तथा सहस्राणि । तथा पञ्च शतानि भणितानि सप्तविंशतिश्चातिरिक्तानि ॥१॥ इति नयनविषयमानं पुष्करवरद्वीपार्धवासिमनुष्याणां । पूर्वस्यामपरस्यां च पृथक् पृथक् भवति मनुष्याणां॥२॥] ततः कथमधिकृतसूत्रमात्माङ्गलेनापि घटते ?.प्रमाणाङ्गलेनापि व्यभिचारभावात् , उक्तं च-"लक्खेहि। एक्कवीसाए साइरेगेहिं पुक्खरद्धंमि। उदये पेच्छंति नरा सूरं उक्कोसए दिवसे ॥१॥णयर्णिदियस्स तम्हा विसयपमाणं dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy