________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥३००॥
जाव देहमाणाइ । देहपमाणं तं चिय नउ इंदियविसयपरिमाणं ॥ १ ॥” [ ननु भणितमुच्छ्रयाङ्गुलप्रमाणतो यावत् (जीव ) देह मानानि । देहप्रमाणमेव तत्, नत्विन्द्रियविषयपरिमाणं ॥ १ ॥ ] अत्र 'देहपमाणं तं चिय' इति यत्तत्र उच्छूयाङ्गुलमेयत्वेनोक्तं तद् देहप्रमाणमात्रमेव, नत्विन्द्रियविषयपरिमाणं, तस्यात्माङ्गुलप्रमेयत्वादिति, अथ यदि विषयपरिमाणमिन्द्रियाणामुच्छ्रयाङ्गुलेन स्यात्ततः को दोष आपद्येत ?, उच्यते, पञ्चधनुःशतादिमनुष्याणां विषयव्यवहारव्यवच्छेदः, तथाहि - यद्भरतस्यात्माङ्गुलं तत्किल प्रमाणाङ्गुलं, तच्च प्रमाणाङ्गुलमुच्छ्रयाजुल सहस्रेण भवति “उस्सेहंगुलमेगं हवइ पमाणगुलं सहस्सगुण” मिति वचनात् [उच्छ्रयाङ्गुलादेकस्मात् भवति प्रमाणांगुलं सहस्रगुणम् ] ततो भरतसगरादिचक्रवर्त्तिनां या अयोध्यादयो नगर्यो ये तु स्कन्धावारा आत्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते प्रसिद्धास्ते उच्छ्रयाङ्गुलप्रमिता अनेकानि योजन सहस्राणि स्युः, तथा च सति तत्रायुधशालादिषु ताडितभेर्यादिशब्दश्रवणं न सर्वेषामापद्येत, " बारसहिं जोयणेहिं सोयं अभिगेण्डए सद्द" मिति वचनात् [ द्वादशभ्यो योजनेभ्यः श्रोत्रमभिगृह्णाति | शब्दम् ॥ ] अथ समग्रनगरव्यापी समस्तस्कन्धावारव्यापी च विजयढक्कादिशब्द आगमे प्रतिपाद्यते तथैव च जनव्यवहारः, तत एवमागमप्रसिद्धः पञ्चधनुःशतादिमनुष्याणां विषयव्यवहारोच्छेदो मा प्रापदित्यात्मामुलेनेन्द्रियाणां विषयपरिमाणमवसातव्यं नोच्छ्रयाङ्गुलेन, तथा चाह भाष्यकृत् - "जं तेणं पंच (पण ) धणुसयनरादिविसयववहारवोच्छेओ । पावइ सहस्सगुणियं जेण पमाणंगुलं तत्तो ॥ १ ॥ " [ यत्तेन पञ्चधनुःशतनरादिव्यवहारव्युच् छेदः । प्राप्नोति
Jain Education International
For Personal & Private Use Only
१५ इन्द्रि यपदे उद्देशः १
॥ ३००॥
www.jainelibrary.org