SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ च वालस्स । लिक्खा जूया य जवा, अट्टगुणविवड्डिया कमसो॥१॥"[परमाणुस्त्रसरेणू रथरेणुरमकं च वालस्य । लिक्षा यूका च यवोऽष्टगुणविवृद्धाः क्रमशः॥१॥] इत्यादिरूपमुच्छ्याङ्गुलं, तृतीयं-'उस्सेहंगुलमेगं हवइ पमाणंगुलं सहस्सगुणं। तं चेव दुगुणियं खलु वीरस्सायंगुलं भणियं ॥१॥ [उत्सेधाङ्गुलादेकस्मात् भवति प्रमाणाङ्गुलं सहस्रगुणम् । तदेव द्विगुणितं वीरस्यात्माङ्गुलं भणितम् ॥१॥ इत्येवं प्रमाणाङ्गुलं, तत्रात्माङ्गुलेन मीयते तत्काले वापीकूपादिकं वस्तु उच्छ्याङ्गुलेन नरतिर्यग्देवनैरयिकशरीराणि प्रमाणाङ्गुलेन पृथिवीविमानानि, उक्तं च-"आयंगुलेण वत्थु उस्सेहपमाणतो मिणसु देहं । नगपुढविविमाणाइं मिणसु पमाणंगुलेणं तु ॥१॥[ आत्माङ्गुलेन वस्तु उत्सेधप्रमाणतो मिनु देहम् । नगपृथ्वीविमानानि मिनु प्रमाणाङ्गुलेनैव ॥१॥] तत्रेदमिन्द्रियविषयपरिमाणं किमात्माङ्गुलेनाहोश्चित् उच्छ्याङ्गुलेन उत प्रमाणाङ्गुलेन ?, उच्यते, आत्माङ्गुलेन, तथा चाह चक्षुरिन्द्रियविषयपरिमाणचिन्तायां भाष्यकृत्-"अप्पत्तकारि नयण मणो य नयणस्स विसयपरिमाणं। आयंगुलेण लक्खं अइरित्तं जोअणाणं तु ॥१॥" ASI[ अप्राप्तकारि नयनं मनश्च नयनस्य विषयपरिमाणम् । आत्माङ्गुलेन लक्षमतिरिक्तं योजनानां तु ॥१॥] ननु देहप्रमा णमुच्छ्याङ्गुलेन तु क्रियते देहाश्रितानि चेन्द्रियाणि ततस्तेषां विषयपरिमाणमपि उच्छ्याङ्गुलेन कर्तुमुचितं, कथमुच्यते आत्माङ्गुलेनेति ?, नैष दोषः, यद्यपि हि नाम देहाश्रितानीन्द्रियाणि तथापि तेषां विषयपरिमाणमात्माङ्गुलेनैव देहादन्यत्वाद्विषयपरिमाणस्य, तथा चामुमेवार्थमाक्षेपपुरस्सरं भाष्यकृदयाह-"नणु भणियमुस्सयंगुलपमाणतो eseeeeeeeeeeee4 dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy