SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय.वृत्ती . ॥२९८॥ एभिरिति शब्दाः तान् शृणोति-गृह्णाति उपलभते इतियावत् , किमुक्तं भवति ?-स्पृष्टमात्राण्येव शब्दद्रव्याणि श्रोत्रे-१५ इन्द्रि|न्द्रियमुपलभते न तु घाणेन्द्रियादिवत् बद्धस्पृष्टानीति, कस्मादिति चेत् , उच्यते, इह शब्दद्रव्याणि घाणेन्द्रियादिवि-1। यपदे षयभूतेभ्यो द्रव्येभ्यः सूक्ष्माणि तथा बहूनि तथा तत्क्षेत्रभाविशब्दयोग्यद्रव्यवासकानि च, ततः सूक्ष्मत्वादतिप्रभूत- उद्देशः१ त्वात्तदन्यद्रव्यवासकत्वाचात्मप्रदेशैः स्पृष्टमात्राण्यपि निवृतीन्द्रियमध्ये प्रविश्य झटित्युपकरणेन्द्रियमभिव्यञ्जयन्ति, श्रोत्रेन्द्रियं च घ्राणेन्द्रियाद्यपेक्षया खविषयपरिच्छेदे पटुतरं, ततः स्पृष्टमात्राण्यपि तानि श्रोत्रेन्द्रियमुपलभते, नास्पृष्टान्-सर्वथाऽऽत्मप्रदेशैः सम्बन्धमप्राप्तान ,श्रोत्रेन्द्रियस्य प्रासविषयपरिच्छेदखभावत्वात् , यथा च श्रोत्रेन्द्रियस्य प्राप्तकारिता तथा नन्द्यध्ययनटीकादौ चर्चितमिति ततोऽवधार्य, 'पुट्ठाई भंते ! रूवाई' इत्यादि सुगम, निर्वचनमाह-गौतम! न स्पृष्टानि रूपाणि पश्यति चक्षुः किन्त्वस्पृष्टानि, चक्षुषोऽप्राप्तकारित्वात् , तच्चाप्राप्तकारित्वं तत्त्वार्थटीकादौ सविस्तरेण प्रसाधितमिति ततोऽवधारणीयं, गन्धादिविषयाणि सूत्राणि सुप्रसिद्धानि, नवरं स्पृष्टान् गन्धान आजिघ्रति इत्यादि यद्यप्युक्तं तथापि बद्धस्पृष्टानिति द्रष्टव्यम् , यत उक्तमावश्यकनियुक्ती-"पुढे सुणेइ सहरूवं पुण पासई अपुढे तुगंधं रसं च फासं च बद्धपुढे वियागरे॥१॥" [स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टमेव । गन्धं रसं च स्पर्श च ॥२९८॥ बद्धस्पृष्टं व्याकुर्यात् ॥ १॥] इति, तत्र स्पृष्टानिति पूर्ववत् बद्धानिति आत्मप्रदेशैरात्मीकृतान् 'बद्धमप्पीकयं पएसेहिं' [बद्धमात्मीकृतं प्रदेशः] इति वचनात् , विशेषणसमासश्च, बद्धाश्च ते स्पृष्टाश्च बद्धस्पृष्टास्तान् , इह स्पृष्टाः eceaeeeeeeeeeeeeee dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy