________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥२९४॥
परिज्ञानात् त्वगिन्द्रियस्य विषयः शीतादयः स्पर्शा यथा चक्षुषो रूपं गन्धो घ्राणस्य, न च खड्गक्षुरिकाद्यभिघाते अन्तः शरीरस्य शीतादिस्पर्शवेदनमस्ति, किन्तु केवलं दुःखवेदनं तच दुःखरूपवेदनमात्मा सकलेनापि शरीरेणानुभवति न केवलेन त्वगिन्द्रियेण ज्वरादिवेदनवत् ततो न कश्चिद्दोषः, अथ शीतलपानकादिपाने अन्तः शीतस्पर्शवे - दनाप्यनुभूयते ततः कथं सा घटामटाट्यते इति ?, उच्यते, इह त्वगिन्द्रियं सर्वत्रापि प्रदेशपर्यन्तवर्त्ति विद्यते, तथा पूर्वसूरिभिर्व्याख्यानात्, तथा चाह मूलटीकाकारः - " सर्वप्रदेश पर्यन्तवर्त्तित्वात् त्वचोऽभ्यन्तरेऽपि शुषिरस्योपरि त्वगिन्द्रियस्य भावादुपपद्यतेऽन्तः शीतस्पर्शवेदनानुभवः” । अधुना पृथक्त्वविषयं सूत्रमाह - 'सोइंदिए णं भंते ! केवइयं पोहत्तेणं पण्णत्ते" इत्यादि, इह पृथुत्वं स्पर्शनेन्द्रियव्यतिरेकेण शेषाणां चतुर्णामिन्द्रियाणामात्माङ्गुलेन प्रतिपत्तव्यं, स्पर्शनेन्द्रियस्य उच्छ्रयाङ्गुलेन, ननु देहाश्रितानीन्द्रियाणि देहवोच्छ्याङ्गुलेन प्रमीयते 'उस्सेहपमाणतो मिण देह' मिति वचनात् [ उत्सेधाङ्गुलप्रमाणेन मिनुहि देहं ] तत इन्द्रियाण्यप्युच्छ्रयाङ्गुलेन मातुं युज्यन्ते नात्माझुलेनेति, तदयुक्तम्, जिह्वादीनामुच्छ्रयाङ्गुलेन पृथुत्वप्रमित्यभ्युपगमे त्रिगव्यूतादीनां मनुष्यादीनां रसाभ्यवहारोच्छेदप्रसक्तेः, तथाहि - त्रिगव्यूतानां मनुष्याणां पड्गव्यूतानां च हस्त्यादीनां खखशरीरानुसारितया अतिविशालानि मुखानि जिह्वाश्च ततो यद्युच्छ्रयाङ्गुलेन तेषां क्षुरप्राकारतयोक्तस्याभ्यन्तरनिर्वृत्यात्मकस्य जिह्वेन्द्रियस्याङ्गुलपृथक्त्वलक्षणो विस्तारः परिगृह्यते तदाऽल्पतया न तत्सव जिह्वां व्याप्नुयात्, सर्वव्यापित्वाभावे च योऽसौ बाहल्येन सर्वा
Jain Education International
For Personal & Private Use Only
१५ इन्द्रि यपदं उद्देशः १
॥२९४॥
www.jainelibrary.org