________________
त्मना जिह्वाया रसवेदनलक्षणः प्रतिप्राणि प्रसिद्धो व्यवहारः स व्यवच्छेदमामुयाद् , एवं घ्राणादिविषयेऽपि यथायोग गन्धादिव्यवहारोच्छेदो भावनीयः, तस्मादात्माङ्गुलेन जिह्वादीनां पृथुत्वमवसेयं नोच्छ्याङ्गुलेनेति, आह च भाष्यकृत्| "इंदियमाणेवि तयं भयणिजं जं तिगाउयाईणं । जिभिदियाइमाणं संववहारे विरुज्झज्झा ॥१॥" अस्या अक्षरगमनिका-'तत्' उच्छ्रयाङ्गुलमिन्द्रियमानेऽपि आस्तामिन्द्रियविषयपरिमाणचिन्तायामित्यपिशब्दार्थः, 'भजनीय' विकल्पनीयं, क्वापि न गृह्यते इत्यर्थः, किमुक्तं भवति ?-स्पर्शनेन्द्रियपृथुत्वपरिमाणचिन्तायां ग्राह्यमन्येन्द्रियपृथुत्वपरिमाणचिन्तायां न ग्राह्यं, तेषामात्माङ्गुलेन परिमाणकरणात् इति, कथमेतदवसेयं इति चेत् ? अतआह-'यत्' यस्मात् सर्वेषामपि इन्द्रियाणां उच्छ्याङ्गुलेन परिमाणकरणे त्रिगव्यूतादीनामादिशब्दात् द्विगन्यूतादिपरिग्रहो जिद्धेन्द्रियादिमानं सूत्रोक्तं संव्यवहारे विरुध्येत, यथा च विरुध्यते तथाऽनन्तरमेव भावितमिति । सम्प्रति कतिप्रदेशावगाहनाद्वारं प्रतिपादयतिसोइंदिए णं भंते ! कतिपदेसोगाढे पं०१, गो०! असंखेजपएसोगाढे पं०, एवं जाव फासिदिए । एएसिणं भंते ! सोतिदियचक्खिदियघाणिदियजिभिदियफासिंदियाणं ओगाहणट्टयाए पएसट्टयाए ओगाहणपएसट्टयाए कतरेशहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गो! सव्वत्थोवे चक्खिदिते ओगाहणट्ठयाते सोतिदिए ओगाहणट्ठयाते संखेजगुणे घाणिदिए ओगाहणट्ठयाते संखेजगुणे जिभिदिए ओगाहणट्टयाए असंखेजगुणे फासिदिए ओगाहणट्टयाए
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org