________________
OPenomenePOSecono00292020
नाविधा, अभ्यन्तरा तु नितिः सर्वेषामपि जन्तूनां समाना, तामेव चाधिकृत्य वक्ष्यमाणानि संस्थानादिविषयाणि सूत्राणि, केवलं स्पर्शेन्द्रियस्य निर्वृतेर्बाह्याभ्यन्तरभेदो न प्रतिपत्तव्यः, पूर्वसूरिभिनिषेधाद् , अत एव च बाह्यसंस्थानविषयमेव तत्सूत्रं वक्ष्यति-'फार्सिदिए णं भंते! किंसंठाणसंठिए पण्णत्ते' इति, उपकरणं खड्गस्थानीयाया बाह्यनिवृतेर्या खड्गधारासमाना खच्छतरपुद्गलसमूहात्मिका, अभ्यन्तरा निर्वृतिस्तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिवृतेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात्, कथञ्चिद्भेदश्च सत्यामपि तस्यामान्तरनिवृतौ द्रव्यादिनोपकरणस्य विघातसम्भवात् , तथाहि-सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरनिर्वृतावतिकठोरतरघनगर्जितादिना शक्त्युपघाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति, भावेन्द्रियमपि द्विधालन्धिः उपयोगश्च, तत्र लब्धिः-श्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावरणक्षयोपशमः, उपयोगः-खखविषये |लब्ध्यनुसारेणात्मनो व्यापारः प्रणिधानमाह । साम्प्रतमाभ्यन्तरां निर्वृतिमधिकृत्य संस्थानादि विचिन्तयिषुः प्रथमतः संस्थानं चिन्तयति-'सोइंदिएणं भंते ! किंसंठिए पण्णत्ते' इत्यादि पाठसिद्धं, अधुना बाहल्यं चिन्तयति- सोईदिए णं भंते! केवइयं बाहल्लेणं पण्णत्ते' इत्यादि, इदमपि पाठसिद्धम् , उक्तश्चायमर्थोऽन्यत्रापि-"बाहलतो य सवाई अंगुलअसंखभाग"मिति [बाहल्यतश्च सर्वाणि अङ्गुलासङ्ख्यभागमानानि] । अत्राह-यद्यङ्गुलस्यासङ्ख्येयभागो बाहल्यं स्पर्शनेन्द्रियस्य ततः कथं खड्गारिकाधभिघाते अन्तः शरीरस्य वेदनानुभवः?, तदेतदसमीचीनं, सम्यग्वस्तुतत्त्वा
7-2008999999
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org