________________
Reseeeeeeeeeeees
संठाणं बाहल्लं पोहत्तं कतिपदेस ओगाढे । अप्पाबहु पुट्ट पविट्ट विसय अणगार आहारे ॥१॥
अद्दाय असी य मणी दुद्ध पाणे तेल्ल फाणिय वसा य । कंबल थूणा थिग्गल दीवोदहि लोग लोगे य ॥२॥ 'संठाणं बाहलं' इत्यादि, प्रथममिन्द्रियाणां संस्थानं, संस्थानं नाम आकारविशेषः, ततो बाहल्यं वक्तव्यं, बाहल्यं नाम बहलता पिण्डत्वमिति भावः, तदनन्तरं पृथुत्वं वक्तव्यं, पृथुत्वं-विस्तारः, तदनन्तरं 'कतिपदेस'त्ति कतिप्रदेशमिन्द्रियमिति वक्तव्यं, तत ओगाढमिति–कतिप्रदेशावगाढमिन्द्रियमिति वाच्यं, तदनन्तरमवगाहनाविषयं कर्कशादिगुणविषयं चाल्पबहुत्वं, ततः 'पुट्ठत्ति स्पृष्टग्रहणमुपलक्षणं तेन स्पृष्टास्पृष्टविषयं सूत्रं वक्तव्यं तदनन्तरं 'पविट्ठत्ति प्रविष्टाप्रविष्टविषयचिन्ता विषयं ततो विषयपरिमाणं ततोऽनगारविषयं सूत्रं तदनन्तरमाहारविषयं [ततो लोकविषयं ] तत 'अदाय'त्ति आदर्शविषयं तदनन्तरमसिविषयं ततो मणिविषयं ततो दुग्धोपलक्षितं ततः पानकविषयं ततस्तैलविषयं ततः फाणितविषयं तदनन्तरं वसाविषयं ततः कम्बलविषयं ततः स्थूणाविषयं तदनन्तरं 'थिग्गल'त्ति आकाशथिग्गलविषयं ततो द्वीपोदधिविषयं ततो लोकविषयं तदनन्तरमलोकविषयं इति । तत्र संस्थानादिकमिन्द्रियाणां वक्तव्यमिति प्रथमत इन्द्रियविषयसूत्रमाह
कति णं भंते! इंदिया पं० १, गो.! पंच इंदिया पं०, तं०-सोतिदिए चक्खिदिए पाणिदिए जिभिदिए फासिदिए, सोतिदिए णं भंते ! किंसंठिए पं० १, गो०! कलंबुयापुप्फसंठाणसंठिते पं०, चक्खिदिए णं भंते ! किंसंठिते ६०१, गो.!
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org