________________
प्रज्ञापनायाः मलय० वृत्ती.
१५ इन्द्रियपदं उद्देशः १
॥२९२॥
उक्तं च-"पुवकयकम्मसाडण निजरा” इति, इयं च देशनिर्जरा द्रष्टव्या, कषायजनितत्वात्, न सर्वनिर्जरा, सा हि निष्कषायस्य सर्वनिरुद्धयोगस्य मोक्षप्रासादमधिरोहतो भवति, न शेषस्य, अत एव चतुर्विंशतिदण्डकसूत्रमपि अविरुद्धं, देशनिर्जरायाः सर्वकालं सर्वेषामपि भावात् , सम्प्रति यत् यत् पदमधिकृत्य प्राक् सूत्राण्युक्तानि तानि विनेयजनानुग्रहाय संग्रहणिगाथया निर्दिशति-'आयपतिट्टिय' इत्यादि, प्रथमं सामान्यसूत्रं सुप्रतीतमिति न संगृहीतं, द्वितीयमात्मप्रतिष्ठितपदोपलक्षितं सूत्रं ततोऽनन्तानुबन्धिपदोपलक्षितं तदनन्तरमाभोगपदोपलक्षितं ततश्चयोपचयबन्धोदीरणवेदनानिर्जराविषयाणि क्रमेण सूत्राणि, अत्र चिणेति उपचयसूत्रोपलक्षणम् ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां चतुर्दशं पदं समाप्तम् ॥ १४ ॥
သသ
अथ पंचदशं पदं ॥१५॥ तदेवं व्याख्यातं चतुर्दशं, सम्प्रति पञ्चदशमारभ्यते-इहानन्तरपदे प्रधानबन्धहेतुत्वात् विशेषतः कषायपरिणाम | SIMean उक्तः, तदनन्तरमिन्द्रियवतामेव लेश्यादिसद्भाव इति विशेषत इन्द्रियपरिणामनिरूपणार्थमिदमारभ्यते, अत्र च द्वावुद्देशकी, तत्र च प्रथमोद्देशके येऽर्थाधिकारास्तत्संग्राहकमिदं गाथाद्वयं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org