SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ भंते! कइहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिसु' इत्यादि, जीवा भदन्त ! कतिभिः स्थानैरष्टौ कर्मप्रकृतीश्चितवन्तः, चयनं नाम कषायपरिणतस्य कर्मपुद्गलोपादानमात्रं, भगवानाह - गौतम ! चतुर्भिः स्थानैस्तद्यथा - क्रोधेन मानेन मायया लोभेन, एवं नैरयिकादिदण्डकेऽपि वक्तव्यं, एष दण्डकोऽतीतकालविषयः, एवं वर्तमानकालभविष्यत्कालविषयावपि वाच्यौ, एवमुपचयबन्धोदीरणावेदननिर्जराविषयाः प्रत्येकं त्रयस्त्रयो दण्डका वाच्या इति सर्वसङ्ख्यया अष्टादश दण्डकाः, तत्र उपचयो नाम स्वस्याबाधाकालस्योपरि ज्ञानावरणीयादिकर्मपुद्गलानां वेदनार्थं निषेकः, स चैवं - प्रथमस्थितौ सर्वप्रभूतं, द्वितीयस्यां स्थितौ विशेषहीनं, ततोऽपि तृतीयस्यां विशेषहीनं, एवं विशेषहीनं २ तावद्वाच्यं यावत्तत्तत्कालबध्यमानायाः स्थितेश्वरमा स्थितिरेतच्च सविस्तरं कर्मप्रकृतिटीकायां पञ्चसंग्रहटीकायां चाभिहितमिति ततोऽवधार्य, बन्धनं नाम - ज्ञानावरणीयादिकर्मपुद्गलानां यथोक्तप्रकारेण खखाबाधाकालोत्तरकालं निषिक्तानां यद्भूयः कषायपरिणतिविशेपान्निकाचनं, उदीरणं - उदीरणाकरणवशतः कर्मपुद्गलानामनुदयप्राप्तानामुदयावलिकायां प्रवेशनं, तदपि हि किञ्चित्तथाविधकषायपरिणतिवशाद्भवतीति 'चउहिं ठाणेहिं उदीरें उदीरन्ति उदीरिस्संती' त्युक्तम्, अन्यथा कषायव्यतिरेकेणापि क्षीणमोहोदये ज्ञानावरणादीनामुदीरका वर्त्तन्ते इति, | वेदना - खखाबाधाकालक्षयादुदयप्राप्तस्य उदीरणाकरणेन वा उदयमुपनीतस्य कर्मण उपभोगः, निर्जरा - कर्मपुद्गलानामनुभूय २ अकर्मत्वापादनं, आत्मप्रदेशैः संश्लिष्टानां ज्ञानावरणीयादिकर्मपुद्गलानामनुभूय २ शातनमिति भावः, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy