________________
प्रज्ञापनायाः मलयवृत्ती.
१४ कषायपदं
॥२९॥
इति, यदा पर उदीरयति आक्रोशादिना कोपं तदा किल तद्विषयः क्रोध उपजायते इति स परप्रतिष्ठित इति, नैगमनयदर्शनमेतत्, नैगमनयो हि तद्विषयमात्रेणापि तत्प्रतिष्ठितं मन्यते यथा जीवे सम्यग्दर्शनमजीवे सम्यग्दर्शनमित्यादयोऽष्टौ भङ्गाः सम्यग्दर्शनस्याधिकरणचिन्तायामावश्यके, तदुभयप्रतिष्ठितः-आत्मपररूपोभयप्रतिष्ठितः, यदा कश्चित् तथाविधापराधवशादात्मपरविषयं क्रोधमाधत्ते इति, अप्रतिष्ठितो नाम यदैष वयं दुश्चरणमाक्रोशादिकं च कारणं विना निरालम्बन एव केवलक्रोधवेदनीयादुपजायते, स हि नात्मप्रतिष्ठितः स्वयं दुश्चरणाभावतः खात्मविषयत्वाभावात् , नापि परप्रतिष्ठितः परस्यापि निरपराधतया अपराधसम्भावनाया अभावतः क्रोधालम्बनत्वायोगात्, (तथा नोभयप्रतिष्ठितोऽपि) दृश्यते च कस्यापि कदाचिदेवमेव केवलक्रोधवेदनीयोदयादुपजायमानः क्रोधः, तथा च स पश्चात् ब्रूते-अहो मे निष्कारणः कोपो नैव (कोऽपि) विरूपं भाषते न च किञ्चिद्विनाशयति, अत एवोक्तं पूर्वमहर्षिभिः-'सापेक्षाणि निरपेक्षाणि च कर्माणि फलविपाकेषु । सोपक्रमं निरुपक्रमं च दृष्टं यथाऽऽयुष्कम् ॥१॥" इति, एवं मानमायालोमा अपि आत्मपरोभयप्रतिष्ठिता अप्रतिष्ठिताश्च भावनीयाः । तदेवमधिकरणभेदेन भेद उक्तः, सम्प्रति कारणभेदतो भेदमाह-'कति (हिं) णं भंते ! ठाणेहिं कोहुप्पत्ती हवई' इत्यादि, तिष्ठन्त्येभिरिति स्थानानि-कारणानि कतिभिः-कियत्सङ्ख्याकैः स्थानः-कारणैः क्रोधोत्पत्तिर्भवति?, भगवानाह-चतुर्भिः स्थानः, तान्येव स्थानान्याह-'खेत्तं पडुच्च' इत्यादि, तत्र नैरयिकाणां नैरयिक क्षेत्रं प्रतीत्य तिरश्चां तिर्यक्क्षेत्रं प्रतीय मनुष्याणां
740020202004020202002882
॥२९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org