________________
|रिणामोऽधुना गतिपरिणाममाह - 'गइपरिणामे णं भंते' इत्यादि, द्विविधो गतिपरिणामः, तद्यथा – स्पृशद्गतिपरिणामोऽस्पृशद्गतिपरिणामश्च तत्र वस्त्वन्तरं स्पृशतो यो गतिपरिणामः स स्पृशद्गतिपरिणामो, यथा- 'ठिक्करिकाया जलस्योपरि प्रयत्नेन तिर्यक्प्रक्षिप्तायाः, सा हि तथा प्रक्षिप्ता सती अपान्तराले जलं स्पृशन्ती २ गच्छति, बालजनप्रसिद्धमेतत्, तथाऽस्पृशतो गतिपरिणामोऽस्पृशद्गतिपरिणामः, यद्वस्तु न केनापि सहापान्तराले संस्पर्शनमनुभवति तस्यास्पृशद्गतिपरिणाम इति भावः अन्ये तु व्याचक्षते - स्पृशद्गतिपरिणामो नाम येन प्रयत्नविशेषात् क्षेत्र प्रदेशान् स्पृशन् गच्छति, अस्पृशद्गतिपरिणामो येन क्षेत्रप्रदेशानस्पृशन्नेव गच्छति, तन्न बुद्ध्यामहे, नभसः सर्वव्यापितया तत्प्रदेशसंस्पर्शव्यतिरेकेण गतेरसम्भवात्, बहुश्रुतेभ्यो वा परिभावनीयं, अत्रैव प्रकारान्तरमाह - 'अहवा दीहगतिपरिणामे य रहस्सगइपरिणामे य' इति, अथवेति प्रकारान्तरे अन्यथा वा गतिपरिणामो द्विविधः, तद्यथा - दीर्घगतिपरिणामो हखगतिपरिणामश्च तत्र विप्रकृष्टदेशान्तरप्राप्तिपरिणामो दीर्घगतिपरिणामस्तद्विपरीतो ह्रस्वगतिपरिणामः २, परिमण्डलादिसंस्थानविशेषाः खण्डभेदादयश्च प्रागेव व्याख्याता इति न भूयो व्याख्यायन्ते, ३, अगुरुलघुपरिणामो भाषादिपुद्गलानां 'कम्मगमणभासाईं एयाई अगुरुलहुयाई' [ कर्ममनो भाषा द्रव्याण्येतान्यगुरुलघुनि] इति वचनात्, तथा अमूर्तद्रव्याणां वाऽऽकाशादीनां, अगुरुलघुपरिणामग्रहणमुपलक्षणं तेन गुरुलघुपरिणामोऽपि द्रष्टव्यः, स चौदारिकादिद्रव्याणां तैजसद्रव्यपर्यन्तानामवसेयः, “ओरालियवे उच्चिय आहारगतेय गुरुलहू दवा”
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org