________________
प्रज्ञापनायाः मलय० वृत्ती.
णामपदं
॥२८८॥
|रिणामः स्निग्धवन्धनपरिणामः, तथा रूक्षस्य सतो बन्धनपरिणामः रूक्षवन्धनपरिणामः, चशब्दो खगतानेकी-| दसूचकौ, अथ कथं स्निग्धस्य सतो बन्धनपरिणामो भवति कथं वा रूक्षस्य सत इति बन्धनपरिणामस्य लक्षणमाह-समनिद्धयाए' इत्यादि, परस्परं समस्निग्धतायां समगुणस्निग्धतायां तथा परस्परं समरूक्षतायांसमगुणरूक्षतायां बन्धो न भवति, किन्तु यदि परस्परं स्निग्धत्वस्य रूक्षत्वस्य च विषममात्रा भवति तदा बन्धः स्कन्धानामुपजायते, इयमत्र भावना-समगुणस्निग्धस्य परमाण्वादेः समगुणस्निग्धेन परमाण्वादिना सह सम्बन्धो न भवति, तथा समगुणरूक्षस्यापि परमाण्वादेः समगुणरूक्षेण परमाण्यादिना सह सम्बन्धो न भवति, किन्तु यदि स्निग्धः स्निग्धेन रूक्षः रूक्षेण सह विषमगुणो भवति तदा विषममात्रत्वात् भवति तेषां परस्परं सम्बन्धः । विषममात्रया बन्धो भवतीत्युक्तं ततो विषममात्रानिरूपणार्थमाह-णिद्धस्स णिश्रेण दुयाहिएणे'त्यादि, यदि स्निग्धस्य परमाण्वादेः स्निग्धगुणेनैव सह परमावादिना बन्धो भवितुमर्हति तदा नियमात् धादिकाधिकगुणेनैव परमाग्वादिनेति भावः, रूक्षगुणस्यापि परमाण्वादेः रूक्षगुणेन परमावादिना सह यदि बन्धो भवति तदा तस्यापि तेन द्यायधिकादिगुणेनैव नान्यथा, यदा पुनः स्निग्धरूक्षयोर्बन्धस्तदा कथमिति चेत् ?, अत आह-'णिद्धस्स लुक्खेणे'त्यादि, स्निग्धस्य रूक्षेण सह बन्ध उपैति-उपपद्यते जघन्यव| विषमः समो वा, किमुक्तं भवति ?-एकगुणस्निग्धं एकगुणरूक्षं च मुक्त्वा शेषस्य द्विगुण स्निग्धादिद्विगुणरूक्षादिना सर्वेण बन्धो भवतीति । उक्तो बन्धनप
॥२८८॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org