________________
तासां श्रेणीनां विष्कम्भसूचिरङ्गुलद्वितीयवर्गमूलं तृतीयवर्गमूलप्रत्युत्पन्नं, एतदुक्तं भवति - अङ्गुलमात्र क्षेत्र प्रदेशराशेरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रमाणस्य यत् द्वितीयं वर्गमूलं, असत्कल्पनया चतुष्कलक्षणं, तत्तृतीयेन वर्गमूलेन, असत्कल्पनया द्विकरूपेण गुण्यते, गुणिते च सति यावान् प्रदेशराशिर्भवति, असत्कल्पनया अष्टौं, तावत्प्र| देशात्मिकया विष्कम्भसूच्या परिमिताः श्रेणयः परिग्राह्याः, तत्रापि ता एव अष्टौ श्रेणय इति प्रकारद्वयेऽप्यर्थाभेदः, आहारकाणि नैरयिकवत्, तैजसकार्मणानि बद्धानि बद्धवैक्रियवत्, मुक्तान्यौधिकमुक्तवत् ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां द्वादशमं पदं समाप्तम् ॥ १२ ॥
अथ त्रयोदशं प्रारभ्यते ।
तदेवं व्याख्यातं द्वादशमं पदं, सम्प्रति त्रयोदशमारभ्यते, तस्य चायमभिसम्बन्धः - इहानन्तरपदे औदारिकादिशरीरविभाग उक्तः, तानि पुनः शरीराणि तथा परिणामे भवन्ति नान्यथा, ततः परिणामस्वरूपप्रतिपादनार्थमिदमारभ्यते, तत्र चेदमादिसूत्रं -
कतिविधे णं भंते! परिणामे पण्णत्ते ?, गो० ! दुविहे परिणामे पं० तं० जीवपरिणामे य अजीवपरिणामे य ( सूत्रं १८१)
Jain Education International
For Personal & Private Use Only
Snelibrary.org