SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मलयवृत्ती. |१२ शरीरपदं ॥२८॥ यगुणा द्रष्टव्या, तथा चाह मूलटीकाकार:-'जम्हा वाणमंतरोहिंतो जोइसिया संखिजगुणा पढिजंति, तम्हा विक्खंभसूईवि तेसिं तेहिंतो संखेजगुणा चेव भवति,' इति नवरं प्रतिभागे स्पष्टतरो विशेषस्तमेवाह-'विछप्पण्णंगुलसयवग्गपलिभागो पयरस्स' इति षट्पञ्चाशदधिकशतद्वयागुलवर्गप्रमाणः प्रतिभागः प्रतरस्य पूरणेऽपहरणे च, अत्रापीयं भावना-षट्पञ्चाशदधिकशतद्वयाङ्गुलवर्गप्रमाणे श्रेणिखण्डे यद्येकैको ज्योतिष्कोऽवस्थाप्यते ततस्ते सकलमपि प्रतरमापूरयन्ति, यदिवा यद्येकैकज्योतिष्कापहारेण एकैकं षट्पञ्चाशदधिकशतद्वयागुलवर्गप्रमाणं श्रेणिखण्डमपहियते तत एकत्र ज्योतिष्काः परिसमाप्सिमुपयान्ति अपरत्र सकलं प्रतरमिति, एवं च ज्योतिष्काणां व्यन्तरेभ्यः सङ्ख्येयगुणहीनः प्रतिभागः सङ्ख्येयगुणाभ्यधिका सूचिः, पञ्चसङ्ग्रहे पुनः षट्पञ्चाशदधिकशतद्वयप्रमाण एवं प्रतिभाग उक्तो नतु षट्पञ्चाशदधिकशतद्वयवर्गप्रमाणः, तथा च तद्ग्रन्थः-"छप्पन्नदोसयंगुलसूइपएसेहिं भाइयं पयरं । जोइसिएहिं हीरइ" इति, मुक्तान्यौधिकमुक्तवत्, आहारकाणि नैरयिकवत् , तैजसकार्मणानि बद्धानि वैक्रियवत् , मुक्तान्यौधिकमुक्तवत् । वैमानिकानामौदारिकाणि नैरयिकवत् , वैक्रियाणि बद्धानि असङ्ख्येयानि, तत्र कालतो मार्गणा ज्योतिष्कवत् , क्षेत्रतो मार्गणाऽसङ्ख्येयाः श्रेणयः, किमुक्तं भवति ?-असङ्ख्येयासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीति, तासां च श्रेणीनां परिमाणं प्रतरस्यासङ्ख्येयो भागः, प्रतरासङ्ख्येयभागप्रमिता ग्राह्या इत्यर्थः, तत्र प्रतरासङ्ख्येयभागो नैरयिकादिमार्गणायामपि गृहीत इति विशेषतरं परिमाणं प्रतिपादयति-तासि ण'मित्यादि, 9202829202082020 ॥२८३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy